________________
भावप्राभतं ।
२२७
विदो मुनेः श्रेण्यारोहणात्पूर्व भवति । श्रेण्योरपूर्वकरणाद्युपशान्तान्तानां प्रथमं शुक्लं भवति । क्षाणकषायस्य द्वितीयं शुक्लं । तृतीयं शुक्ल चतुर्थं च शुक्लं केवलिनां भवति । तत्र सयोगस्य तृतीय, चतुर्थमयोगस्येति । पृथक्त्ववितर्कवीचारं प्रथमं शुक्लं । एकत्ववितर्कावीचारं तृतीयं शुक्लं । सूक्ष्मक्रियाप्रतिपातिनामकं तृतीयं शुक्लं । व्युपरतक्रियानिवर्तिनामधेयं चतुर्थ शुक्लं । तत्र पृथक्त्ववितर्कवीचारं त्रियोगस्य भवति मनोवाकायावष्टम्भैरात्मप्रदेशपरिस्पन्दान् त्रीन् योगानवलम्ब्य अवष्टभ्य उत्पद्यते इत्यर्थः । एकत्ववितर्काविचारं त्रिषु योगेषु मध्ये एकस्य चलनद्वारेणात्मपरिस्पन्दे सति समुत्पद्यत इत्यर्थः । काययोगस्य केवलिनः सूक्ष्मक्रियाप्रतिपाति शुक्लं भवति । अत्र कायावष्टम्भेनैवात्मनश्चलनं । अयोगकेवलिनो व्युपरतक्रियानिवार्तं शुक्लध्यानं, यतोऽत्र कायाद्यवष्टम्भेनात्मप्रदेशचलनं न भवति । पृथक्त्ववितर्कवीचारमेकत्ववितर्कवीचारं ध्यानद्वयं पुर्वेष्वधीतिन एव । वितर्कवीचारसहितं पूर्व । द्वितीयं तु वीचाररहितं । वीचारः किं ? अर्थव्यञ्जनयोगसंक्रान्तिर्वीचारः परिवर्तनमित्यर्थः । अर्थसंक्रान्ति: का ? द्रव्यं विमुच्य पर्यायं गच्छति पर्यायं विहाय द्रव्यं समुपेतीत्यर्थसंक्रान्तिः । एकं वचनं त्यक्त्वा वचनान्तरमवलम्बते तदपि त्यक्त्वाऽन्यद्वचनमवलम्बते इति व्यञ्जनसंक्रान्तिः । काययोगं त्यक्त्वा योगान्तरं गच्छति तदपि त्यक्त्वा काययोगं व्रजतीति योगसंक्रान्तिः । एवं श्रुतज्ञानेन वितर्पा समूह्य द्रव्यं तत्पर्याये पर्यायान् वितर्व्य ततो द्रव्ये परिवर्तने वीचारे सति पृथक्त्वेन भेदेन अर्थपर्याययोर्वचनयोगयोर्वा श्रुतज्ञानपर्यालोचनेन संक्रान्तिः पृथक्त्ववितर्कवीचारः शुक्लध्यानं भवति । यद्यप्यर्थव्यञ्जनादिसंक्रान्तिरूपतया चलनं वर्तते तथापि इदं ध्यानं । कस्मात् ? एवंविधस्यैवास्य विवक्षितत्वात् । विजातीयाने कविकल्परहितस्य अर्थादिसंक्रमेण चिन्ताप्रबन्धस्यैव एतद्धयानत्वेनेष्टत्वात् । अथवा द्रव्यपर्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org