________________
२२६
षट्प्राभृतेकाया अप्राप्तासृपाटिकायाश्च संहननत्रयस्यान्तर्मुहूर्तकालं यावञ्चिन्तानिरोधधारणायामसमर्थत्वात् । गमनभोजनादिक्रियाविशेषेष्वनियमेन प्रवर्तमानस्यात्मन एकस्याः क्रियायाः कर्तृत्वेनावस्थानं निरोधः-क्रियान्तरव्यवधानाभावेन एकक्रियायाः सातत्येन प्रवृत्तिनिरोध इत्यर्थः। एकाने एकार्थे एकस्मिन्नने प्रधाने वा वस्तुनि चिन्तानिरोधः-एकस्मिन् द्रव्ये पर्याये तदुभयात्मके स्थूले सूक्ष्मे वा चिन्तानिरोध इत्यर्थः । अथवा सद्धयानं, अगं मुखं, एकमग्रं यस्य स एकाग्रः स चासौ चिन्तानिरोधश्चैकाग्रचिन्तानिरोधः एकस्मिन्नर्थे वर्तमानचिन्तानिरोधः एकमुखः सद्ध्यानं, अनेकत्राक्षसूत्रादौ अनेकमुखः सद्ध्यानं न भवति यथा प्रदीपशिखा अनिराबाधेन परिस्पन्दते तथाऽनिराकुलतायां ध्यानं न स्यात् । गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रादिकं यत्संवरकारणं तदेव ध्यानकारणमिति ज्ञातव्यं । आन्तर्मुहूर्तात् मुहूर्तमध्ये ध्यानं भवति । न चाधिकः कालो ध्यानस्यास्ति, कस्मात् ? चिन्तानां दुर्धरत्वात् अतिचपसत्वाच्च । एतावत्यपि काले ज्वलदचलं ध्यानं कर्मध्वसाय भवति प्रलयकालमारुतवत् समुद्रजलशोषणवत् । तद्धयानं हेयमुयादेयं च । तत्र हेयमात रौद्रं च । उपादेयं धर्म्य शुक्लं च । ऋतौ दुःखे भवमात । रुद्राः क्रूराशयः प्राणी तत्कर्म रौद्रं । धर्मो वस्तुस्वरूपं तस्मादनपेतं आश्रितं धर्म्य । मलरहितात्मपरिणामोद्भवं शुक्लं । तत्र धर्म्य शुक्लं च द्वयं मोक्षकारणं । संसारकारणमन्यवयमातरौद्रमिति ज्ञातव्यं । आर्त्तममोनज्ञस्य संप्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारो वारं वारं चिन्तनं मनोज्ञस्य विपरीत चितनं तद्विपरीतं वेदनाचिन्तनं तद्विपरीतं निदानस्य चिन्तनं । हिंसानृतस्तेयविषयसंरक्षणेभ्यो रौद्रं ध्यानमुत्पद्यते । आर्त अविरतदेशविस्तप्रमत्तसंयतेषु संभवति । रौद्रं अविरतदेशविरतेप संभवति । आज्ञापायविपाकसंस्थानविचयैर्धर्म्यध्यानसुत्पद्यते । तत्पूर्व
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org