________________
भावप्राभतं।
२२३ आकंपिअ अणुमाणिअ जं दिह्र बाअरं च सुहमं च । छन्नं सद्दाउलअं बहुजणमव्यत्त तस्सेवी ॥१॥ पुरुषस्यैकान्ते द्वयाश्रयमालोचनं, स्त्रियास्तु प्रकाशे त्र्याश्रयमालोचनं, महदपि तपश्चरणमालोचनरहितं तत्प्रायश्चित्तमकुर्वतो वा अभीष्टफलदं न भवतीति ज्ञातव्यं । दोषमुच्चार्योच्चार्य मिथ्या मे दुष्कृतमस्तु इत्येवमादिरभिप्रेतः प्रतीकारः प्रतिक्रमणं । एतत्प्रतिक्रमणमाचार्यानुज्ञया शिष्येणैव कर्त्तव्यं । आलोचनं प्रदाय प्रतिक्रमणमार्येणैव कर्त्तव्यं तत्तदुभयमुच्यते । शुद्धस्याप्यशुद्धत्वेन यत्र सन्देहविपर्ययौ भवतः, अशुद्धस्य शुद्धत्वेन निश्चयो वा यत्र, प्रत्याख्यातं यत्तद्वस्तु भाजने मुखे वा प्राप्तं, यस्मिन् वस्तुनि गृहीते कषायादिकमुत्पद्यते तस्य सर्वस्य त्यागो विवेकः । नियतकालकायवाङ्मनसां त्यागो व्युत्सर्गः । तपो बाह्यं कथितमेव । दिनपक्षमासादिविभागेन दीक्षाहापनं छेदः । दिवसादिविभागेनैव दूरतः परिवर्जनं परिहारः । महाव्रतानां मूलच्छेदनं कृत्वा पुनर्दीक्षाप्रापणमुपस्थापना । आचार्यमपृष्ट्वा आतापनादिकरणे पुस्तकपिच्छादिपरोपकरणग्रहणे परपरोक्षे प्रमादतः आचार्यादिवचनाकरणे संघनाथमपृष्ट्वा स्वसंघगमने देशकालनियमेनावश्यकर्तव्यव्रतविशेषस्य धर्मकथादिव्यासंगेन विस्मरणे सति पुनः करणे अन्यत्रापि चैवंविधे आलोचनमेव प्रायश्चित्तं । षडिन्द्रियवागादिदुष्परिणामे, आचार्यादिषु हस्तपादादिसंघटने, व्रतसमितिगुप्तिषु स्वल्पातिचारे, पैशून्यकलहादिकरणे, वैयावृत्यस्वाध्यायादिप्रमादे, गोचरगतस्य लिंगोत्थाने, अन्यसंक्लेशकरणादौ च प्रतिक्रमणं प्रायश्चित्तं भवति । दिव
, आकम्पितं अनुमानितं यदृष्टं बारं, च सूक्ष्मं च ।
छन्नं शब्दांकुलितं बहुजनं अव्यक्तं तत्सेवी ॥ अस्यार्थो नवमे पृष्ठे दर्शनीयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org