________________
wwAA..
२२२
षट्प्राभूतेद्वादशविधतपश्चरणं त्रयोदशक्रियाः भावय त्रिविधेन।
धरमनोमत्तदुरितं ज्ञानाङ्कुशेन मुनिप्रवर ! ॥ वारसविहतवयरणं द्वादशविधं तपश्चरणं अनशनमुपवासः, अवमोदर्यमेकग्रासादिरल्पाहारः, वृत्तिपरिसंख्यानं गणितगृहेषु भोजनं वस्तुसंख्या वा, रसपरित्यागः षड्सविवर्जनं, विविक्तेषु जन्तुस्त्रीपशुनपुंसकरहितेषु स्थानेषु शून्यागारादिषु आसनं उपवेशनं शय्या निद्रा स्थानं अवस्थानं वा विविक्तशय्यासनं, कायक्लेश: जलौदनभोजनादि । इदं षडिधं बाह्यं तपः। बाह्यं कस्मादिति चेत् ? बाह्यं भोजनादिकमपेक्ष्य प्रवर्तते, परप्रत्यक्ष वा प्रवर्तते, परदर्शने पाषंडिगृहस्थैश्च क्रियते ततो बाह्यमुच्यते। एतस्मात्तपसः कर्मदहनं इन्द्रियतापकारित्वं च भवति । संयमो रागोच्छेदः कर्मनाशो ध्यानादिः आशानिवृत्तिः शरीरतेजोहानिः ब्रह्मचर्य दुःखसहनं सुखानभिष्वङ्ग आगमप्रभावनादिकं च फलं ज्ञातव्यं । षड्विधमभ्यन्तरं तपः, यतः परतीयैरनालीढं स्वसंवेद्यं बाह्यद्रव्यानपेक्ष्यं ततोऽभ्यन्तरं तप उच्यते । तत्कि ? प्रायश्चित्तविनयवैयावृत्यस्वाध्यायव्युत्सर्गध्यानलक्षणं । तत्र नवविधं प्रायश्चित्तं, चतुर्विधा विनयः, दशविधं वैयावृत्यं, पंचविधः स्वाध्यायः, द्विविधो व्युत्सर्गः, चतुर्विधं ध्यानं चेति षड्विधमभ्यन्तरं तप इति द्वादशविधं तपः । किं तन्नवविधं प्रायश्चित्तमिति चेत् ? गुरोरने स्वप्रमादनिवेदनं दशदोषरहितमालोचनं । के ते दशदोषा आलोचनाया इति चेत् ?
१ जलोदनभोजनत्यागादि. ख. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org