SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ भावप्राभृतं । २२१ सम्यग्दर्शनज्ञानचारित्रतपोभिरात्मप्रकाशनं शासनोद्योतकरणं वा प्रभावना (८) एतैरष्टभिर्गुणैर्युक्तत्वं चर्मजलतैलघुतभूतनाशनाऽप्रयोगत्वं मूलकगर्जरसूरणकन्दगुंजनपलाण्डुविशदौग्धिककलिंगपंचपुष्पसंधानककौसुंभपत्रपत्रशाकमांसादिभक्षकभाजनभोजनादिपरिहरणं च दर्शनवि. शुद्धिः (१) ज्ञानदर्शनचरित्रेषु तद्वत्सु चादरोऽकषायता वा विनयसम्पन्नता (२) निरवद्यावृत्तिः शीलवतेष्वनतिचारः (३) सन्ततं ज्ञानस्योपयोगोऽभ्यासः अभीक्ष्णज्ञानोपयोगः ( ४ ) संसाराद्भीरुत्वं संवेगः ( ५ ) स्वशक्त्यनुरूपं दानं (६) मार्गाविरुद्धः कायक्लेशस्तपः (७) मुनिगणतपःसन्धारणं साधुसमाधिः (८) गुणवतां दुःखोपनिपाते निरवद्यवृत्या तदपनयनं वैयावृत्यं (९) अर्हत्सु केवलिषु अनुरागो भक्तिः (१०) आचार्येष्वनुरागो भक्तिः (११) बहुश्रुतेष्वनुरागो भक्तिः (१२) प्रवचने जिनसूत्रेऽनुरागो भक्तिः (१३) सामायिकं सर्वजीवेषु समत्वं, चतुर्विंशतिजिनानां स्तुतिः स्तवः कथ्यते, एकजिनस्य स्तुतिर्वन्दनाभिधीयते, कृतदोषनिराकरणं प्रतिक्रमणं, आगामिदोषनिराकरणं प्रत्याख्यानं । एकमुहूर्तादिषु शरीरव्युत्सर्जन कायोत्सर्गः एतेषां षण्णामावश्यकानामपरिहाणिरेका चतुर्दशी भावना ( १४ ) ज्ञानादिना धर्मप्रकाशनं मार्गप्रभावना ( १५ ) सधमणि स्नेहः प्रवचनवत्सलत्वं ( १६ ) एताः षोडशभावनाः समस्तास्तीर्थकरनामकारणं दर्शनविशुद्धिसहिता व्यस्ता अपि तीर्थकरनामकारणं भवन्तीति ज्ञातव्यं । वारसविहतवयरणं तेरसकिरियाओ भाव तिविहेण । धरहि मणमत्तदुरियं णाणांकुसएण मुणिपेवर ॥ ७८ ॥ १ मणमत्तणायं. ग. । मनोमत्तनागं । २ मुणिपवरा. ग. घ. । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy