________________
२२०
षट्प्राभूते
wmarrrrrrrrrrrrrrrrrrrrrrrr
श्वेताम्बरादिकः प्रत्याख्यानादिहीनः, तपःक्लेशसहः श्रमण उच्यते न तु बहुवारं जलस्य पाता भोजनस्य भोक्ता च । छद्दसवरकारणाई भाऊणं षोडशवरकारणानि भावयित्वा । तित्थयरनामकम्मं बंधइ तीर्थकरनामकर्म बध्नाति त्रिनवतितमी प्रकृति स्वी. करोति यया त्रैलोक्यं संचलयति पादाधः करोति । अइरेण कालेण अचिरेण कालेन अन्तर्मुहूर्तसमयन, यया पंचकल्याणलक्ष्मी प्राप्नोति, अनन्तकालमनन्तसुखमनुभवति, अनायासेन मोक्षं प्राप्नोति । अथ कानि तानि षोडशकारणानि यैस्तीर्थकरनामकर्म बध्यत इति चेदुच्यते___" दर्शनविशुद्धिर्विनयसम्पन्नता शीलवतेष्वनतिचारोऽभीषणज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसी साधुसमाधिर्वैयावृत्यकरणमहंदाचार्यबहुश्रुतप्रवचनभक्तिरावश्यकापरिहाणिमार्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थकरत्वस्य"
इत्युमास्वामिसूरिणा प्रोक्तं सूत्रं । अस्यायमर्थः-इहलोकभय-पैरलोकभय-वेदनाभय-मरणभैय-आत्मरक्षणोपायदुर्गाद्यभावागुप्तिभय-अत्राणभयारक्षणभय-विद्युत्पाताद्याकस्मिकभय इति सप्तभयरहितत्वं निःशंकितत्वं निग्रन्थलक्षणो मोक्षमार्ग इति जिनमतं तथेति वा निःशंकितत्वं (१) इहलोकपरलोकभोगोपभोगाकांक्षानिवृत्तिनिष्कांक्षित्वं (२) शरीरादौ शुचीति मिथ्यासंकल्परहितत्वं निर्विचिकित्सता, मुनीनां रत्नत्रयमंडितशरीरमलदर्शनादौ निशूकत्वं तत्र समाढौक्य वैयावृत्यविधानं वाविचिकित्सता (३) परतत्वेषु मोहोज्झकत्वममूढदृष्टित्वं ( ४ ) उत्तमक्षमादिभिरात्मनो धर्मवृद्धिकरणं संघदोषाच्छादनं चोपवृंहणमुपगूहनं (५) कषायविषयादिभिर्धमविध्वंसकारणेपु सत्स्वपि धर्मप्रच्यवनरक्षणं स्थितिकरणं (६) जिनशासने सदानुरागता वात्सल्यं (७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org