________________
भावप्राभतं ।
२१९
भव्यवरपुण्डरीकैः स्तुता प्रशंसनीया । अथवा हे भव्यनुत ! आसन्नभव्यजीव ! त्वमिदं जानीहाति शेषः ।
पयलियमाणकसाओ पयलियमिच्छत्तमोहसमचित्तो। पावइ तिहुयणसारं बोही जिणसासणे जीवो ॥ ७६॥
प्रगलितमानकषायः प्रगलितमिथ्यात्वमोहसमचित्तः ।
प्राप्नोति त्रिभुवनसारां बोधि जिनशासने जीवः ॥ पयलियमाणकसाओ प्रगलितमानकषायो मानकषायरहितः । पयलियमिच्छत्तमोहसमचित्तो प्रगलितमिथ्यात्वमोहसमचित्तो यद्विपरीतं तन्मिथ्यात्वं, मोहो वैचित्यं निर्विवेकता पुत्रमित्रकलत्रादिस्नेहः, प्रगतौ विनाशं प्राप्तौ मिथ्यात्वमोही यस्य स प्रगलितमिथ्यात्वमोहः, समं सर्वत्र तृणसुवर्ण-सर्पसृक्-शत्रुमित्र-सुखदुःख-बनभवन-पुरारण्यादिषु समानं चित्तं मनो यस्य स समचित्तः। पावइ तिहुयणसारं प्राप्नोति लभते । कां, बोही बोधि रत्नत्रयप्राप्ति । कथंभूतां बोधि, तिहुयणसारं-त्रैलोक्योत्तमां। जिणसासणे जीवो जिनशासने सर्वज्ञवीतरागस्वामिनो मते । मानमिथ्यात्वमोहरहितो जीवो बोधि प्राप्नोतीति जिनवचनं ज्ञातव्यमिति ।
विसयविरत्तो समणो छद्दसवरकारणाई भाऊणं । तित्थयरनामकम्मं बंधइ अइरेण कालेण ॥ ७७॥ विषयविरक्तः श्रमणः षोडशवरकारणनि भावयित्वा ।
तीर्थकरनामकर्म बध्नाति अचिरेण कालेन ॥ विसयविरत्तो समणो विषयेभ्यः स्पर्शरसगन्धवर्णशब्देभ्यः पंचेन्द्रियार्थेभ्यो विरक्तः पराङ्मुखः श्रमणो दिगम्बरः, न तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org