________________
२१८
षट्प्राभूतेखचरामरमनुजानाम जलिमालाभिः संस्तुता विपुला।
चक्रधरराजलक्ष्मीः लभ्यते बोधिं न भव्यनुतां ॥ खयरामरमणुयकरंजलिमालाहिं च इयमपि विपुला गाथा ज्ञातव्या । अस्या अयमर्थः-खचरामरमनुजकराञ्जलिमालाभिश्च खे चरन्त्याकाशे गच्छन्तीति खचरा विद्याधरा उभयश्रेणिसम्बन्धिनः, न नियन्ते बहुकालेन प्रच्यवन्तेऽमरा व्यन्तरदेवाः, म[य-प्रतिश्रुत्यादिभ्यो जाता मनुजाः, खचरामरमनुजास्तेषां कराञ्जलयः करकुड्मलानि तेषां मालाभिः श्रेणिभिश्च । संथुया-संस्तुताः । चक्रवर्तिनां च तथा मण्डलेश्वरमहामण्डलेश्वरार्धमण्डलेश्वराणां राज्ञां लक्ष्मीः चक्रधरराजलक्ष्मीः । लब्भेइ बोही ण भव्यणुओ एतादृशी लक्ष्मीविभूतिर्लभ्यते प्राप्यते जीवनेति, बोही ण-परं बोधिर्नलभ्यते। कथंभूता बोधिः, भव्यनुता
भावं तिविहपयारं सुहासुहं सुद्धमेव णादवं । असुहं अट्टरउदं सुह धम्मं जिणवरिंदेहिं ॥ १ ॥ भावः त्रिविधप्रकारः शुभोऽशुभः शुद्ध एव ज्ञातव्यः ।
अशुभः आर्तरौद्रः शुभः धयं जिनवरेन्द्रैः ॥ टीका-भावं त्रिविधप्रकारं शुभं अशुभं शुद्धं एव निश्चयेन ज्ञातव्यं । अशुभं आर्तरौद्रं । शुभं धर्मध्यानं जिनवरेन्द्रैः कथितम् ।
सुद्धं सुद्धसहावं अप्पा अप्पम्मि तं च णायव्वं । इदि जिणवरेहि भणियं जं सेयं तं समायरह ॥२॥ शुद्धः शुद्धस्वभावः आत्मा आत्मनि स च ज्ञातव्यः ।
इति जिनवरैः भणितः यच्छ्रेयः तत् समाचर ॥ टीका-हे मुने ! शुद्धं निर्मलं शुद्धस्वभावं तं आत्मानं आत्मनि ज्ञातव्यं । इति जिनवरैर्भणितं कथितं । यच्छ्रेयं कल्याणकारि तत् समाचर कुर्विति ।
१ अस्य स्थाने मनुष्या इति ख. पुस्तके पाठः । २ या. टी. ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org