________________
भावप्राभृतं ।
२१७
भावो विदिव्यसिवसुखभायणो भाववज्जिओ सवणो । कम्ममलमलिणचित्तो तिरियालयभायणो पावो ॥ ७४ ॥
भावोपि दिव्य शिव सुखभाजनं भाववर्जितः श्रवणः । कर्ममलमलिनचित्तः तिर्यगालयभाजनं पापः ॥
भावो वि दिव्वसवसुक्खभायणो इति विपुलानाम - गाथा लक्षणं । भावोऽपि, अपिशब्दाद्द्रव्यलिंगमपि । दिव्व-दिवि भवं दिव्यं सौधर्मेशानदेवीरतिक्रम्यान्यतरमहर्द्धिकदेवसुखं सौधर्माद्यच्युतस्वर्गपर्यन्तं सुखं द्रव्यलिंगमनन्तरेण भावनीयं । तद्युक्तद्रव्यलिंगेन सर्वार्थसिद्धिपर्यन्तं सुखं ज्ञातव्यं । कस्यचिदभव्यस्य भावलिंगमन्तरेण द्रव्यलिंगेन नवग्रैवेयकपर्यन्तं पुनः पुनर्भवपातहेतुभूतं सुखं ज्ञातव्यं । तेनास्य पादस्य पुनरर्थः प्रकाश्यते । भावोऽपि दिव्यशिवसौख्यभाजनं स्वर्गमोक्षसौख्यभाजनं । भाववज्जिओ सवणो भाववर्जितः श्रवणो जिनसम्यक्त्वरहितो दिगम्बरः । कम्ममलमलिणचित्तो कर्ममलेन अतिचारानाचारातिक्रमव्यतिक्रमचेष्टितोपार्जितपापेन दोषेण मलिनचित्तः मलिनं मलदूषितं चित्तमात्मा यस्य स भवति कर्ममलमलिनचित्तः । तिरियालयभायणो पावो तिर्यगालयभाजनं तिर्यग्गतिस्थानं भवति, पापः पापात्मा विचित्रमतिनाममंत्रिपुत्रवत् ।
खयरामरमणुयकरंजलिमालाहिं च संधुया विउला । चकहररायलच्छी लब्भेइ बोही ण भव्वणुओं ॥ ७५ ॥
१ खयरामरमणुयाणं अंजलिमालाहि घ. पुस्तके पाठः ।
२ सुभावेणेति पाठान्तरं । घ. पुस्तके च ।
३ अस्माद्वाथासूत्रादग्रे घ. पुस्तके इमे गाथासूत्रे समुपलभ्येते । मुद्रितपुस्तके च । न चोपलभ्येते च ग. इति प्राचीनलिखित मूलपुस्तके | क. ख. इति टीका पुस्तके च न स्त एव । टीकाप्यनयोर्नास्ति । ते च घ. पुस्तको क्तटीकासहिते अत्र लिख्येते । ( अग्रतनपृष्ठे )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org