SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २१६ षट्प्राभृतेकरनामकर्मदायिका भवन्ति । दर्शनविशुद्धिरहिता अपराः पंचदशादि भावनास्तीर्थकरनामकर्म नार्पयन्ति । तथा चोक्तं-- एकापि समर्थेयं जिनभक्तिर्दुर्गतिं निवारयितुं । पुण्यानि च पूरयितुं दातुं मुक्तिश्रियं कृतिनः ॥ १ ॥ अथवा द्रव्यनिग्रन्थाः-बहुविधधर्ममिषेण द्रव्यमुपार्जयन्ति ये ते द्रव्यनिग्रन्थाः कथ्यन्ते । न लहंति ते समाहिं ते मुनयः समाधि रत्नत्रयपरिपूर्णतां धर्म्य शुक्लध्यानद्वयं वा न लभन्ते न प्राप्नुवन्ति । बोहिं जिणसासणे विमले बोधिं सम्यग्दर्शनज्ञानचारित्रलक्षणां न लभन्ते न प्राप्नुवन्ति जिनशासने श्रीमद्भगवदर्हत्सर्वज्ञवीतरागमते। कथंभूते, विमले पूर्वापरविरोधविवर्जिते कर्ममलकलङ्कक्षयहेतुभूते वा। भावेण होइ नग्गो मिच्छत्ताई य दोस चइऊणं । पच्छा दव्वेण मुणी पयडदि लिंगं जिणाणाए ॥ ७३ ॥ भावेन भवति नग्नः मिथ्यात्वादींश्च दोषान् त्यक्त्वा।। पश्चाद्रव्येण मुनिः प्रकटयति लिङ्गं जिनाज्ञया ॥ भावेण होइ नग्गो भावेन परमधर्मानुरागलक्षणजिनसम्यक्त्वेन भवति, कीदृशो भवति ? नग्नः वस्त्रादिपरिग्रहरहितः । किं कृत्वा पूर्व, मिच्छत्ताई य दोस चइऊणं मिथ्यात्वादींश्च दोषाँस्त्यक्त्वा मिथ्यात्वाविरतिप्रमादकषाययोगलक्षणास्त्रवद्वाराणि त्यक्त्वा । पच्छा दव्वेण मुणी पश्चात् भावलिंगधरणादनन्तरं मुनिर्दिगम्बरः । पयडदि लिंगं जिणाणाए प्रकटयति स्फुटीकरोति, किं तत् ? लिंग-जिनमुद्रां, कया ? जिणाणाए-जिनस्याज्ञया जिनसम्यक्त्वेन सम्यक्त्वश्रद्धानरूपेणेति बीजांकुरन्यायेनोभयं संलग्नं ज्ञातव्यं । भावलिंगेन द्रव्यलिंगं द्रव्यालंगन भावलिंगं भवतत्युिभयमेव प्रमाणीकर्तव्यं । एकान्तमतेन तेन सर्व नष्टं भवतीति वेदितव्यं । अलं दुराग्रहणेति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy