SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ भावप्राभतं। २१५ धम्मो वत्थुसहावो खमादिभावो य दसबिहो धम्मो। चारित्तं खलु धम्मो जीवाण य रक्खणो धम्मो ॥१॥ एवमुक्तलक्षणे धर्मे निप्पवासो-निरतिशयेन प्रवासः प्रगतवासः उद्वस इत्यर्थः । दोसावासो य दोषाणां मलातिचाराणामावासो निवासः । उच्छुफुल्लसमो इक्षुपुष्पसमः इक्षुपुष्पसदृशः। निष्फलनिग्गुणयारो निष्फलो मोक्षरहितः, निर्गुणो ज्ञानरहितः । यथा इक्षुपुष्पं निष्फलं फलरहितं भवति सस्यविवर्जितं स्यात् तथा निर्गुणं गन्धहीनं भवति तथा परमार्थरहितो दिगम्बरो ज्ञातव्यः । तथा निर्गुणकारः परेषां गुणकारको न भवति सम्बोधको न स्यात् । नडसवणो नग्गरूवेण नग्नरूपेण कृत्वा नटश्रवणः नर्मसचिवसदृशः। स लोकरंजनार्य नग्नो भवति तथायमपि । इति व्याख्यानं ज्ञात्वा सम्यक्त्वे ज्ञाने चारित्रे तपसि च दृढतया स्थातव्यं । जे रायसंगजुत्ता जिणभावगरहियदव्वनिग्गंथा । न लहंति ते समाहि बोहिं जिणसासणे विमले ॥७२॥ ये रागसंगयुक्ता जिनभावनरहितव्यनिर्ग्रन्थाः । न लभन्ते ते समाधिं बोधिं जिनशासने विमले ॥ जे रायसंगजुत्ता ये मुनयो रागेण स्त्रीप्रीतिलक्षणेन, संगेन परिग्रहेण युक्ता भवन्ति । अथवा रागेण संगं स्त्रीगमनं कुर्वन्ति । अथवा राजसंगः अर्हद्भावनां त्यक्त्वा राजसेवां कुर्वन्ति राजसेवायुक्ता भवन्ति जिणभावणरहियदव्वनिग्गंथा जिनभावनारहितद्रव्यनिग्रन्थाः, जिने भावना रुचिर्येषां नास्ति ते जिनभावनारहितास्ते च ते निग्रन्था नग्नरूपधारिणो जिनभावनारहितद्रव्यनिग्रन्थाः । अथवा जिनस्य भावना तीर्थकरनामकर्मोपार्जनप्रत्ययभूता दर्शनविशुद्धयादयो भावनाः षोडश ताभ्यो रहिताः । जिनसम्यक्त्वसहिता व्यस्ताः समस्ता वा भावनास्तीर्थ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy