________________
२१४
षट्प्राभतेपयडहिं जिणवरलिंगं हे जीव ! हे आत्मन् ! प्रकटय जिनवरलिंगं पूर्व जिनवरलिंगं त्वं धर नग्नो भव । पश्चात्कथंभूतो भव, अभितरभावदोसपरिसुद्धो अभ्यंतरभावेन जिनसम्यक्त्वपरिणामेन कृत्वा दोषपरिशुद्धो दोषरहितो भव । अयमत्र तात्पर्य द्रव्यलिंगं विना भावलिंगीसन्नपि मोक्षं न लभत इत्यर्थः, शिवकुमारो भावलिंगी भूत्वापि स्वर्ग गतो न तु मोक्षं, जम्बूस्वामिभवे द्रव्यलिंगी अतिकष्टेन संजातस्तस्मिंश्च सति भावलिंगेन मोक्ष प्राप । भावमलेण य जीवो भावमलेनापरिशुद्धपरिणामेन जिनसम्यक्त्वरहिततया । बाहिरसंगम्मि मयलियइ बाह्यसंगे सति मइलियइ-मलिनो भवति सम्यक्त्वं विना निग्रन्थोऽपि सग्रन्थो भवतीति भावार्थः । स्याद्भावेन मोक्षो द्रव्यलिंगापेक्षत्वात् , स्याव्यलिंगेन मोक्षो भावलिंगापेक्षत्वात् , स्यादुभयं क्रमार्पितोभयत्वात् , स्यादवाच्यं युगपद्वक्तुमशक्यत्वात् , स्याद्भावलिंगं चावक्तव्यं च, स्याव्यलिंगं चावक्तव्यं च, स्यादुभयं चावक्तव्यं चेति सप्तभंगी योजनीया । तथा चोक्तं
पयोव्रतो न दध्यत्ति न पयोत्ति दधिव्रतः। अगोरसवतो नोभे तस्मात्तत्वं त्रयात्मकं H-१ ॥ धम्मम्मि निप्पवासो दोसावासो य उच्छुफुल्लसमो । निष्फलनिग्गुणयारो नडसवणो नग्गरूवेण ॥ ७१ ॥
धर्मे निप्रवासो दोषावासश्च इक्षुपुष्पसमः ।
निष्फलनिर्गुणकारो नटश्रवणो नमरूपेण ॥ धम्मम्मि निप्पवासो धर्मे दयालक्षणे चारित्रलक्षणे आत्मस्वरूपे उत्तमक्षमादिदशलक्षणे च । तदुक्तं
१ इ. टी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org