________________
भावप्राभतं ।
२१३
मा भवतु तस्य पापं परहितनिरतस्य पुरुषसिंहस्य । यस्य परदोषकथने जिव्हा मौनव्रतं चरति ॥१॥ हास्यं च वर्करः । मत्सरश्च परेषां शुभद्वेषः । उक्तं चउद्युक्तस्त्वं तपस्विन्नधिकमभिभवं त्वय्यगच्छन् कषायाः
प्राभूद्वोधोऽप्यगाधो जलमिव जलधौ किं तु दुर्लक्ष्यमन्यैः । नियंढेऽपि प्रवाहे सलिलमिव मनाग्निम्नदेशेष्ववश्यं
मात्सर्य ते स्वतुल्ये भवति परवशादुर्जयं तजहीहि ॥१॥ माया च परवंचना । उक्तं च---- यशो मारीचीयं कनकमृगमायामलिनितं
हतोऽश्वत्थामोक्त्या प्रणयिलघुरासीद्यमसुतः । सकृष्णः कृष्णोऽभूत्कपटबहुवषेण नितरा
मपि च्छद्माल्पं तद्विषमिव हि दुग्धस्थ महतः॥१॥ पैशून्यहास्यमत्सरमायाबहुलं तेन तथोक्तेन । पुनः कथंभूतेन नाग्नेन, श्रवणेन निरन्तरसम्बन्धिना नानाधर्ममिषोपार्जितद्रव्येण । अथवा सवनेन वनवाससहितेन । तथा चोक्तं -
वनेऽपि दोषाः प्रभवन्ति रागिणां
गृहेऽपि पंचेन्द्रियनिग्रहस्तपः । अकुत्सिते वर्त्मनि यः प्रवर्तते
विमुक्तरागस्य गृहं तपोवनं ॥ १ ॥ पयडहिं जिणवरलिंगं अभितरभावदोसपरिसुद्धो। भावमलेण य जीवो बाहिरसंगम्मि मयलियइ ॥ ७० ॥
प्रकटय जिनवरलिङ्ग अभ्यन्तरभावदोषपरिशुद्धः । भावमलेन च जीवो बाह्यसङ्गे मलिनः ॥
१ त्वामगच्छनिति पाठान्तरं । २ स्वतुल्यैर्भवतीति पाठान्तरं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org