SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २१२ षप्राभृतेजिनस्य श्रीमद्भगवदर्हत्सर्वज्ञवीतरागस्य सम्बन्धिनी या भावना सम्यक्त्वं तया वजिओ-वर्जितः। कथं, सुइरं-सुचिरमतिदीर्घकालं । तथा चोक्तं कालु अणाइ अणाइ जिउ भवसायरु वि अणंतु । जीवे वेणि न पत्ताइं जिणुसामिउसमत्तु ॥१॥ इति व्याख्यानं ज्ञात्वा सम्यग्दर्शने दृढभावना कर्तव्येति भावार्थः । अयसाण भायणेण य किं ते णग्गेण पावमलिणेण । पेसुण्णहासमच्छरमायाबहुलेण सवणेण ॥ ६९ ॥ अयशसां भाजनेन च किं ते नभेन पापमलिनेन। पैशून्यहास्यमत्सरमायाबहुलेन श्रवणेन ॥ अयसाण भायणेण य अयशसामपकीर्तीनां भाजनेनामत्रेणाधारपात्रेण । किं ते णग्गेण पावमलिणेण हे जीव ! ते तव नाग्न्येन नग्नत्वेन किं-न किमपि, स्वर्गमोक्षकार्यरहितेन वृथेत्यभिप्रायः । कथंभूतेन नाग्न्येन, पापमलिनेन पापवन्मलिनेन कश्मलिना । अथवा पापेति पृथक्पदं तेनायमर्थः रे पाप ! पापमूर्ते दिगम्बरवेषाजीवक! मलिनेन अतिचारानाचारातिक्रमव्यतिक्रमसहितेन नाग्न्येन किं ? न किमपि । तथा चोक्तं समासोक्तिना गुणभद्रेण भगवता हे चन्द्रमः! किमिति लाञ्छनवानभूस्त्वं तद्वान् भवेः किमिति तन्मय एव नाभूः। किं ज्योत्स्नया मलमलं तव घोषयन्त्या ___ स्वर्भानुवन्ननु तथा सति नासि लक्ष्यः॥१॥ कथंभूतेन तव नाग्न्येन, पेसुण्णहासमच्छरमायाबहुलेण सवणेण पैशून्यहास्यमत्सरमायाबहुलेन । पैशून्यं परदोषग्रहणं । उक्तं च १ कालोऽनादिः अनादिः जीवः भवसागरोऽपि च अनन्तः । जीवेन द्वे न प्राप्ते जिनस्वामिसम्यक्त्वे ॥ २ न. टी. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy