________________
भावप्राभृतं ।
द्रव्येण सकलनग्ना नारकतिर्यञ्चश्च सकलसंघाताः । परिणामेन अशुद्धा न भावश्रवणत्वं प्राप्ताः ॥
दव्वेण सयलनग्गा द्रव्येण बाह्यकारणेन सकलाः सर्वे जीवा नग्ना वस्त्रादिरहिताः । के ते, नारय नारकाः सप्ताधोभूमिस्थितचतुरशीतिशतसहस्रबिलसंजातसत्वाः । तिरिया य तिर्यचश्च पशवो जीवा नग्ना एव भवन्ति । तथा सयलसंघाया नारकाणां तिरश्चां च सर्वे समूहाः । अथवा सकलसंघाताः स्त्रीभिः सह मिलिताः कमनीयकामिनीभिरालिगिताः सर्वे पुरुषसमूहा अपि द्रव्येण नग्ना निर्वस्त्रादिका भवन्ति । कथंभूतास्ते, परिणामेण असुद्धा परिणामेन मनोव्यापारेणाशुद्धा रागद्वेषमोहादिकश्मलिताः । ण भावसवणत्तणं पत्ता भावश्रवणत्वं परिणामदिगम्बरत्वं न प्राप्ता न कर्मक्ष्यलक्षणमोक्षनिरीक्षा बभूवुरिति पूर्वसम्बन्धः । नग्गो पावर दुक्खं नग्गो संसारसायरे भमइ । गोन लहइ बोहिं जिणभावणवज्जिओ सुइरं ॥ ६८ ॥
नग्नः प्राप्नोति दुःखं नग्नः संसारसागरे भ्रमति । नग्नो न लभते बोधिं जिनभावनावर्जितः ॥
नग्गो पावर दुक्खं नग्नः पुमान् प्राप्नोति लभते, किं ? दुःखं छेदनभेद नशूला रोपणयंत्र पीलनक्रकचविदारणभ्राष्टक्षेपण तप्त लोहपुत्तलिकालिंगन वैतरणी नदी विशेषमज्जनकूटशाल्मलिघर्षणासिपत्रवनच्छायानिवेशनशारीरमानसागन्त्वसातं नरकेषु तिर्यक्षु कुमनुष्येषु कुदेवेषु च दुःखं प्राप्नोतीत्यभिप्रायः श्री कुन्दकुन्दाचार्याणां । नग्गो संसारसायरे भमइ (नग्नः संसारसागरे भ्राम्यति ) मज्जनोन्मज्जनं करोति । नग्गो न लहइ बोहिं नग्नो जीवो बोधिं रत्नत्रयप्राप्तिः न लभते - अनन्तानन्तसंसारे पर्यटितोऽपि जन्मशतसहस्रकोटिभिरपि सम्यग्दर्शनज्ञानचारित्राणि मोक्षकारणानि न प्राप्नोतीत्यर्थः । कथंभूतो नग्नः, जिणभावणवज्जिओ सुइरं
Jain Education International
२११
For Private & Personal Use Only
www.jainelibrary.org