________________
२१०
षट्प्राभूतेभावहि पंचपयारं भावय त्वं हे जीव ! पंचप्रकारं पंचविधं । किं ? णाणं सम्यग्ज्ञानं । कथंभूतं ज्ञानं, अज्ञाननाशनं अज्ञानस्याविवेकस्य नाशनं विध्वंसकं । कथं भावय, सिग्धं शीघ्रं लघुतया । भावणभावियसहिओ भावना रुचिः तस्या भावितं वासितं तेन सहितः संहितः पुमान् संयुक्तो जीवः । दिवसिवसुहभायणो होइ दिवः स्वर्गस्य, शिवस्य मोक्षस्य, सुखस्य परमानन्दलक्षणस्य, भाजनममत्रं, भवति संजायते । पंचज्ञानविस्तरस्तत्वार्थतात्पर्यवृत्तौ प्रथमाध्याये ज्ञातव्यः । मतिश्रुतावधिमनःपर्ययकेवलानि ज्ञानमिति नामनिर्देशः ।
पढिएण वि किं कीरइ किं वा सुणिएण भावरहिएण । भावो कारणभूदो सायारणयारभूदाणं ॥६६॥
पठितेनापि किं क्रियते किं वा श्रुतेन भावरहितेन ।
भावः कारणभूतः सागारानगारभूतानाम् ॥ पढिएण वि किं कीरइ पठितेन ज्ञानेन किं क्रियते-किं स्वर्गमोक्ष विधीयते-अपि तु न क्रियते इत्यर्थः । अपिशब्दादपठितेनापि अनभ्यस्तेनापि जिव्हाग्रेऽकृतेनापि ज्ञानेन स्वर्गो मोक्षश्च क्रियते इत्यर्थः । किंवा मणिएण वा-अथवा श्रुतेनाकर्णितेन ज्ञानेन किं ? न-किमपि, स्वर्गश्च मोक्षश्च न भवतीत्यर्थः । कथंभूतेन पठितेन श्रुतेन च, भावरहिएण भावरहितेन । भावो कारणभूदों भाव आत्मरुचिः जिनसम्यक्त्वकारणभूतो हेतुभूतः । सायारणयारभूदाणं सागारानगारभूतानां श्रावकाणां यतीनां चेति तात्पर्य ।
दव्वेण सयलनग्गा नारयतिरिया य सयलसंधाया। परिणामेण असुद्धा ण भावसवणतणं पत्ता ॥ ६७॥
१
ओ. टी. । २ या. टी. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org