________________
भावप्राभृतं ।
२०९
1
I
हीति दीपकं सम्बन्धनीयं । अगंधं सुरभिदुरभिलक्षणगन्धद्वयवर्जितं जीवपदार्थ जानीहि | अव्वत्तं अव्यक्तं इन्द्रियानिन्द्रियाणामगोचरत्वादस्फुटं, केवलज्ञानिनां व्यक्तं स्फुटं जीवतत्वं हे जीव ! भेदज्ञानसमृद्धान्तरात्मन् ! जानीहि । निषेधं कृत्वा विधिं दर्शयन्ति --- चेयणागुणसमद्दं चेतनागुणेन इतिमात्रेण सम्यक्प्रकारेणा परिणतं । समिद्धमिति पाठे चेतनागुणेन ज्ञानगुणेन समृद्धमिति व्याख्येयं । जाणलिंगग्गहणं जाण जानीहि त्वं हे जीव ! अलिंगग्रहणं स्त्रीपुंनपुंसकलिंगत्रयग्रहणं स्वीकारस्तेन रहितं जीवमात्मानं विदांकुरु । व्यवहारनयेन यद्यपीयं स्त्री अयं पुमान् इदं नपुंसकमिति भण्यते तथापि निश्चयनयेनात्मा शुद्धबुद्वैकस्वभावो न लिंगत्रयवानिति । जीवमणिदिवसंठाणं जीवमात्मानं, अनिर्दिष्टसंस्थानं न निर्दिष्टानि जिनागमे प्रतिपादितानि संस्थानानि डाकृतयो यस्येति अनिर्दिष्टसंस्थानस्तं जानीहि । अथ कानि तानि संस्थानानि यान्यात्मनो निश्चयनयेन नैव वर्तन्ते इति चेत् ? तन्नामनिर्देश: क्रियते - समचतुरस्र संस्थानं ( १ ) न्यग्रोधपरिमण्डलसंस्थानं (२) स्वात्यपरनामवाल्मिक संस्थानं (३) कुब्जकसंस्थानं (४) वामनसंस्थानं (५) हुंडकसंस्थानं चेति (६) नामानुसारेण शरीराकारो ज्ञातव्य इति तात्पर्यं ।
भावहि पंचपयारं णाणं अण्णाणणासणं सिग्धं । भावणभावियसहिओ दिवसिवसुहभायणो होइ ॥ ६५ ॥
भावय पञ्चप्रकारं ज्ञानं अज्ञाननाशनं शीघ्रम् । भावानाभावित सहितः दिशिव सुखभाजनं भवति ॥
१ अ. टी. । २ नि. टी. ।
१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org