________________
२०८
षट्प्राभूतेस आत्मा ज्ञातव्यः । कम्मक्खयकारणणिमित्ते कर्मक्षयकारणनिमित्ते कर्मणां ज्ञानावरणदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रान्तरायाणां समूलकाषं कषणे जीवपदार्थ एव समर्थ इति ज्ञातव्यं । अनन्तसौख्यदानहेतुरात्मेति भावः ।
जेसिं जीवसहावो णत्थि अभावो य सब्बहा तत्थ । ते होंति भिण्णदेहा सिद्धा वचिगोयरमतीदा ॥ ६३॥
येषां जीवस्वभावो नास्ति अभावश्च सर्वथा तत्र ।
ते भवन्ति भिन्नदेहाः सिद्धा वचोगोचरातीताः ॥ जेसिं जीवसहावो येषामासन्नभव्यानां जीवस्वभाव आत्मस्वभाव आत्मनोऽस्तित्वमस्ति । णत्थि अभावो य सव्वहा तत्थ नास्त्यभावश्च सर्वथा तत्र । तत्रात्मनि अभावश्च नास्ति "अस्त्यात्मानादिबद्धः" इति वचनात् । ते होंति भिण्णदेहा ते पुरुषा भवन्ति भिन्नदेहाः शरीरर हित्ताः। सिद्धा वचिगोयरमतीदाते पुरुषाः किं भवन्ति सिद्धाः सिद्धिः स्वात्मोपलब्धिर्विद्यते येषां ते सिद्धाः प्रज्ञादित्वादस्त्यर्थेऽण्प्रत्ययः । कथंभूताः सिद्धाः, वचोगोचरातांता वाचां गोचरत्वे गम्यत्वेऽतीता अगम्या वक्तुं न शक्यन्ते-तत्सदृशानां केवलज्ञानिनां गम्या इत्यर्थः ।
अरसमरूवमगंधं अव्वत्तं चेयणागुणसमदं । जाणमलिंगग्गहणं जीवमाणिद्दिसंठाणं ॥ ६४ !!
अरसमरूपमगन्धमव्यक्तं चेतनागुणसमाई।
जानीहि अलिङ्गग्रहणं जीवमनिर्दिष्टसंस्थानं ॥ अरसं मधुराम्लकटुतिक्तकषायपंचरसरहितं हे जीव ! त्वं जीवं जानीहि । अरूवं श्वेतपीतहरितारुणकृष्णलक्षणपंचरूपरहितं जीवमात्मानं जानी
१ दं. क. पुस्तके तट्टीकायां च. । २ न. टी. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org