SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ भावप्राभृतं । २०७ जीवो जिणपण्णत्तो णाणसहाओ य चेषणासाहओ॥ सो जीवो णायव्वो कम्मक्खयकारणणिमित्ते ॥६२।। जीवो जिनप्रज्ञप्तः ज्ञानस्वभाश्च चेतनासहितः । स जीवो ज्ञातव्यः कर्मक्षयकारणनिमित्ते॥ जीवो जिणपण्णत्तो जीव आत्मा जिनप्रज्ञप्तः श्रीमद्भगवदर्हत्सर्वज्ञवीतरागेण प्रणीतः कथितः। जीवो नास्तीति ये वाक्कुशिष्या वदन्ति तन्मतमनेन पदेन निरस्तं भवतीति ज्ञातव्यं । तथा चोक्तं-- तदर्हजस्तनेहातो रक्षोदृष्टेर्भवस्मृतेः। भूतानन्वयनाजीवः प्रकृतिज्ञः सनातनः ॥१॥ कथंभूतः प्रणीतः, णाणसहाओ य ज्ञानस्वभावो ज्ञानस्वरूपः । तथा चोक्तं विभावसोरिवोष्णत्वं वरण्योरिव चापलं । शशाङ्कस्येव शीतत्वं स्वरूपं ज्ञानमात्मनः॥१॥ इत्यनेन ये सांख्याः कापिलाः सत्कार्यापरनामानो मिथ्यादृष्टयो वदन्ति “जीवः खलु मुक्तः सन् बाह्यग्राह्यरहितो भवति" तन्मतं निराकृतं भवतीति वेदितव्यं । तथा चोक्तंकपिलो यदि वाञ्छति वित्तिमचिति सुरगुरुगीगुंफेष्वेव पतति । चैतन्यं बाह्यग्राह्यरहितमुपयोगि कस्य वद तत्र विदित ॥१॥ चेयणासहिओ चेतनासहितः प्रतिपद्विराजमान इत्यनेन लोकायतमतं निरस्तमिति ज्ञातव्यं । एवं गुणविशिष्टेन जीवेन किं कार्य भवतीति पर्यनुयोगे सतीदं प्राहुः सो जीवो णायव्यो स जीवः १ चार्वाकाकु० ख. । २ वो. टी. । ३ चरेण्योनुव. ख. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy