________________
२०६
षट्प्राभते
NA
भावयत भावशुद्ध आत्मानं सुविशुद्धनिर्मलं चैव ।
लघु चतुर्गतिं त्यक्त्वा यदि इच्छत शास्वतं सुखम् ॥ भावेह भावसुद्धं भावयत यूयं कथं ? यथा भवति भावसुद्धंभावशुद्धं परिणामस्य निष्कुटिलत्वं मायामिथ्यानिदानशल्यत्रयरहितत्वं यथा भवत्येवं आत्मानमर्हत्सिद्धादिकं च हे भव्याः ! भावयत । "हजित्था मध्यमस्य” इति सूत्रेण तस्थाने ह । अप्पा सुविसुद्धनिम्मलं चेव आत्मानं सुविशुद्धनिर्मलं चैव । आत्मानं कथंभूतं, सुविशुद्धनिर्मलं सुष्टु अतिशयेन विशुद्धं कर्ममलकलंकरहितं निर्मलं रागद्वेषमोहमलरहितं । लहु चउगइ चइऊणं लघु शीघ्रं चतुर्गतिं त्यक्त्वा प्रमुच्य। जइ इच्छह सासयं सुक्खं यदि चेत् , इच्छत यूयं शाश्वतमविनश्वरं सौख्यं परमानन्दलक्षणमिति ।
जो जीवो भावंतो जीवसहावं सुभावसंजुत्तो। सो जरमरणविणासं कुणइ फुडं लहइ णिव्वाणं ॥६॥
यो जीवो भावयन् जीवस्वभावं सुभावसंयुक्तः।
स जरामरणविनाशं करोति स्फुटं लभते निर्वाणम् ॥ जो जीवो भावंतो यो जीव आसन्नभव्यः भावंतो-भावयन् भवति । कं भावयन् भवति ? जीवसहावं जीवस्वभावमात्मस्वरूपं अनन्तज्ञानानन्तदर्शनानन्तवीर्यानन्तसुखस्वरूपं केवलं केवलज्ञानमयं वा आत्मानं । कथंभूतः सन् , सुभावसंजुत्तो शोभनपरिणाम. संयुक्तो रागद्वेषमोहादिविभावपरिणामरहितः । सो जरमरणविणासं कुणइ फुडं स जीवोऽन्तरात्मा भेदज्ञानबलेन जरामरणविनाशं करोति पुनर्जराजीर्णो न भवति न च म्रियते, कथं ? फुडु-स्फुटं निश्चयेन तीर्थकरो भवति । लहइ णिव्वाणं लभते किं निर्वाणं सर्वकर्मक्षयलक्षणं मोक्षं अनन्तसुखं प्राप्नोतीत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org