SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ भावप्राभृतं । २०५. तीर्थयात्राजिनप्रतिष्ठाशास्त्रश्रवणवन्दनस्तवनादिकं, इत्यादि सम्यक्त्वोत्पत्तिकारणं । चरित्रे च ममात्मैव चारित्रकार्ये ममात्मैव वर्तते न तु नानाविकल्परूपं व्रतसमिति गुप्तिधर्मानुप्रेक्षापरीषहजयादिकमात्रवनिरोधलक्षणभावसंवरनिमित्तं । आदा पच्चक्खाणे आगामिदोषनिराकरणलक्षणं प्रत्याख्यानं प्रत्याख्याननिमित्तं ममात्मैव वर्तते । आदा मे संवरे जोगे आत्मा मे मम संवरे संवरनिमित्तं कर्मास्त्रवनिरोधलक्षणसंवर कार्ये ममात्मैव वर्तते । योगस्य ध्यानस्य कार्ये ममात्मैव वर्तते इति भावः । एगो मे सस्सदो अप्पा णाणदंसणलक्खणो | सेसा मे बाहिरा भावा सव्वे संजोगलक्खणा ॥ ५९ ॥ एको मे शास्वत आत्मा ज्ञानदर्शनलक्षणः ॥ शेषा मे बाह्या भावाः सर्वे संयोगलक्षणाः ॥ एगो मे सस्सदो अप्पा एको मे शाश्वत आत्मा अन्यत्सर्वं विनश्वरमित्यर्थः । स आत्मा कथंभूतः, णाणदंसणलक्खणो निश्चयेन केवलज्ञान केवलदर्शनलक्षणः, व्यवहारेणाष्टविधज्ञानचतुर्विधदर्शन चिन्हः, मतिश्रुतावधिमनः पर्यय केवलानि सम्यग्ज्ञानं पंचविधं कुमतिकुश्रुतविभंगलक्षणं मिथ्याज्ञानं त्रिविधं, इत्यष्टभेदा ज्ञानस्य । चक्षुर्दर्शनमचक्षुर्दर्शनमवधिदर्शनं केवलदर्शनं चेति चतुर्विधं दर्शनं, इति द्वादशभेद उपयोगो जीवस्य व्यवहारभूतं लक्षणं । सेसा मे बाहिरा भावा शेषा ज्ञानदर्शनद्वयाद्वहिर्भूताः पुत्रकलत्रमित्रादयः पदार्था बाह्या भावा: पदार्था भवन्ति । सव्वे संजोगलक्खणा सर्वे संयोगलक्षणाः संयोगेन कर्मोदयेन मिलिता इत्यर्थः । भावेह भावसुद्धं अप्पा सुविसुद्ध निम्मलं चेव । लहु चउगह चइऊणं जइ इच्छह सासयं सुक्खं ॥ ६० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy