________________
२०४
षट्प्राभूतेपरित्यक्तः मनोवचनकायै रहितः। अप्पा अप्पम्मि रओ आत्मा आत्मनि रतः । य एवं विधः स भावलिंगी हवे साहू स साधु वलिंगी भवेत् ।
ममत्तिं परिवज्जामि निम्ममत्तिमुवडिदो। आलंबणं च मे आदा अवसेसाई वोसरे ॥ ५७॥ ममत्वं परिवर्जामि निर्ममत्वमुपस्थितः।।
आलम्बनं च मे आत्मा अवशेषाणि व्युत्सृजामि ॥ ममत्तिं परिवज्जामि ममत्वं ममतां ममेदमहमस्येति भावं परिवर्जामि परिहरामि । निम्ममत्तिमुवहिदो निर्ममत्वमिति भावमुपस्थित आश्रितः । आलंत्रणं च मे आदा यद्येवं ममत्वं परिहरसि निषेधं करोषि तर्हि कं विधिं श्रयसि “एकस्य निषेधोऽपरस्य विधिः” इति वचनात् द्वयमत्रेति पृष्टे उत्तरं ददाति आलम्बनं चाश्रयो मे मम आदाआत्मा निजशुद्धबुद्धैकजीवपदार्थ इति विधिः । अवसेसाई वोसरे अवशेषाणि आत्मन उद्धरितानि रागद्वेषमोहादीनि व्युत्सृजामि परिहरामि ।
आदा खु मज्झणाणे आदा मे दंसणे चरित्ते य । आदा पञ्चक्खाणे आदा मे संवरे जोगें ॥ ५८ ॥
आत्मा खलु मम ज्ञाने आत्मा मे दर्शने चरित्रे च ।
आत्मा प्रत्याख्याने आत्मा मे संवरे योगे॥ आदा खु मज्झ णाणे आत्मा निजचैतन्यस्वरूपो जीवपदार्थः खुस्फुटं मम ज्ञाने ज्ञानकार्ये, ज्ञाननिमित्तं ममात्मैव वर्तते नान्यत्किमपि ज्ञानोपकरणादिकं पुस्तकपट्टिकादिकमिति भावः। आदा मे देसणे चरित्ते य आत्मा मे दर्शने सम्यक्त्वे सम्यग्दर्शनकार्ये नान्यत्किमपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org