________________
२२४
षट्प्राभूते
सान्ते रात्र्यन्ते भोजनगमनादौ च प्रतिक्रमणं प्रायश्चित्तं । लोचनखच्छेदस्वप्नेन्द्रियातिचाररात्रिभोजनेषु पक्षमाससंवत्सरादिदोषादौ च उभयं आलोचनप्रतिक्रमणप्रायश्चित्तं । मौनादिना लोचकरणे, उदरकृमिनिर्गमे, हिममशकादिमहावातादिसंह/तिचारे, स्निग्धभूहरिततृणपंकोपरिगमने, जानुमात्रजलप्रवेशकरणे, अन्यनिमित्तवस्तुस्वोपयोगकरणे, नावादिनदीतरणे, पुस्तकप्रतिमापातने, पंचस्थावरविघाते, अदृष्टदेशतनुमलविसर्गादौ, पक्षादिप्रतिक्रमणक्रियायां, अन्तर्व्याख्यानप्रवृत्यन्तादिषु कायोत्सर्ग एव प्रायश्चित्तं । उच्चारप्रस्रवणादौ च कायोत्सर्गः प्रसिद्ध एव । अनशनादिकरणस्थानमागमाद्बोद्धव्यं । नवविधप्रायश्चित्ते किं फलं ? भावप्रसादोऽनवस्था शल्याभावदाादिकं फलं वेदितव्यं ।
अनलसेन देशकालादिविशुद्धिविधानज्ञेन सबहुमानो यथाशक्ति क्रियमाणो मोक्षार्थ ज्ञानग्रहणाभ्यासस्मरणादि ज्ञानविनयः। तत्वश्रद्धाने निःशंकितत्वादिदर्शनविनयः । ज्ञानदर्शनवतो दुश्चरणे तद्वति च ज्ञानेऽति. भक्तिर्भावतश्चरणानुष्ठानं चरणविनयः। प्रत्यक्षेष्वाचार्यादिष्वभ्युत्थानवंदनानुगमनादिरात्मानुरूपः परोक्षेष्वपि तेष्वञ्जलिक्रियागुणकीर्तनस्मरणानुज्ञानुष्ठायित्वादिश्च कायवाङ्मनोभिरुपचारविनयः । विनयस्य किं फलं ? ज्ञानलाभः आचारशुद्भिः सम्यगाराधनादिश्च विनयस्य फलं वेदितव्यं । इति चतुर्विधो विनयः। ___ दशविधं वैयावृत्यं । तथा हि । आचार्यस्य वैयावृत्यं, उपाध्यायस्य वैयावृत्यं, महोपवासाद्यनुष्ठायितपस्विनो वैयावृत्यं, शास्त्राभ्यासी शैक्षस्तस्य वैयावृत्यं, रुजादिक्लिष्टशरीरो ग्लानस्तस्य वैयावृत्यं, स्थविरसन्ततिगणस्तस्य वैयावृत्यं, दीक्षकाचार्यशिष्यसंघः कुलं तस्य वैयावृत्यं, ऋषि
१ पुस्तकद्वयेऽपीटगेव पाठः, अनगारधर्मामृते तु मौनादिना विनालोचनकरणे इति । २ वतां । ३ दुश्वरचरणे पाठान्तरं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org