________________
भावप्राभतं।
२०१
स्फुटं शक्रादिदेवैः प्रकटीकृतघातिक्षयजातिशयदशकः सर्वप्रसिद्धः संजात इति । अस्य कथा यथा-कश्चिच्छिवभूतिनामासन्नभव्यजीवः परमवैराग्यवान् कस्यचिद्गुरोः पादमूले दीक्षां गृहीत्वा महातपश्चरणं करोति षट्प्रवचनमात्रामानं जानाति परं वैदुष्यं किमपि तस्य नास्ति । आत्मानं शरीरकर्मचयाद्भिन्नं जानाति । तद्ग्रन्थं नायाति गुरुणा प्रोक्तं दृष्टान्तं पुनः पुनस्तीक्ष्णी करोति तुषान्माषो भिन्न इति यथा तथा शरीरादात्मा भिन्न इति । तं शब्दं घोषयन्नपि कदाचिद्विस्मृतवान् । अर्थ जानन्नपि शब्दं न जानाति । एकाकी विहरति च । शब्दविस्मरणक्लेशावर्ती कांचिधुवतिं वटकादिकपचनार्थ माषान् सूपीकृतान् जलमध्येप्लावितांस्तुषेभ्यो भिन्नान् कुर्वन्ती दृष्ट्वा पृष्टवान्-किं कुरुषे भवति ! इति। सा प्राह-तुषमाषान् भिन्नान् करोमि । स आह-मया प्राप्तमिति क्वचिद्गतः । तावन्मात्रद्रव्यभावश्रुतेनात्मन्येकलोलीभावं प्राप्तोऽन्तर्मुहूर्तेन केवलज्ञानं प्राप्य नवकेवललब्धिमान् देशान् विहृत्य भव्यजीवानां मोक्षमार्ग प्रदर्श्य मोक्षं गत इति। इति श्रीभावप्राभते शिवभूतिमुन्युपाख्यानं समाप्तं ।
भावेण होइ णग्गो बाहिरलिंगेण किं च नग्गेण । कम्मपयडीण णियरं णासइ भावेण दव्वेण ॥ ५४॥
भावेन भवति नग्नः बहिर्लिङ्गेन किं च नग्नेन ।
कर्मप्रकृतीनां निकर नश्यति भावेन द्रव्येण ॥ भावेण जिनराजसम्यक्त्वेन । होइ णग्गो भवति नग्नो निग्रन्थस्वरूपः । बाहिरलिंगेण किं च नग्गेण बहिलिगेन किं च बाह्यनग्रतया न किमपि मोक्षलक्षणं कार्य सिद्धयति पशूनामिव । कम्मपय
१ तदिति ख. पुस्तके नास्ति । २ नग्गो इति टीका पाठः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org