________________
२०२
षट्प्राभूते
डीण णियरं कर्मप्रकृतीनां निकर समूहः अष्टचत्वारिंशदधिकशतसंख्यानां वृन्दं । णासइ भावेण दव्वेण नश्यति भावेन द्रव्येण चेति । ये मिथ्यादृष्टयो गृहस्था अपि सन्तोऽस्माकं भावो विद्यते इति वदन्ति स्त्रीभिः सह ब्रह्मचर्यं च भजन्ति ते लोलौंका चार्वाकसदृशा नास्तिकास्तन्मतनिरासार्थमिदं वचनमुक्तं श्रीकुन्दकुन्दाचार्यस्वामिभिः " णासइ भावेण दव्वेण" भावेणे-कर्मक्षयो भवति भावपूर्वकद्रव्यलिंगेन गृहीतेन द्वाभ्यां भावद्रव्यलिंगाभ्यां कर्मप्रकृतिनिकरो नश्यति न त्वेकेन भावमात्रेण द्रव्यमात्रेण वा कर्मक्षयो भवति । इति व्याख्यानबलेन ते नास्तिका पूर्ववच्छिक्षीया इति भावार्थः ।
णग्गत्तणं अकज्जं भावणरहिय जिणेहिं पण्णत्तं । इय णाऊण य णिचं भाविज्जहि अप्पयं धीर ॥ ५५ ॥
नग्नत्वं अकार्य भावरहितं जिनैः प्रज्ञप्तम् ।
इति ज्ञात्वा च नित्यं भावयेः आत्मानं धीर ! ॥ णग्गत्तणं अकज्जं नग्नत्वं सर्वबाह्यपरिग्रहरहितत्वं अकार्य सर्वकर्मक्षयलक्षणमोक्षकार्यरहितं । कथंभूतं नग्नत्वं, भावणरहियं जिणेहिं पण्णत्तं भावनारहितं पंचपरमेष्टिबाह्यभावनारहितं, निजशुद्धबुद्धेकस्वभावात्मान्तरङ्गभावनारहितं च जिनस्तीर्थकरपरमदेवैरनगारकेवलिभिर्गणधरदेवैश्च प्रज्ञप्तं प्रणीतं प्रतिपादितं कथितं भणितमिति यावत् । इय णाऊण य णिच्चं इति ज्ञात्वा विज्ञाय नित्यं सर्वकालं । भाविजहि अप्पयं धीर भावयेस्त्वं आत्मानं बहिस्तत्वं च हे धीर! योगीश्वर ! इति सम्बोधनपदेन धेयं प्रति धियमीरयन्ति प्रेरयन्ति इति धीरा योगीश्वरा एव ग्राह्या न तु गृहस्थवेषधारिणः पापिष्ठ
१ नियरं. टीकापाठः । २ नासइ टीकापाठः । ३ भावेणेति पाठः ख. पुस्तके नास्ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org