________________
२००
षट्प्राभृते
प्यतीताः । कोऽप्ययं मायावी वर्तते इति विचिन्त्य स्थिता । ब्रह्मा तु
कोऽपि नास्ति । उक्तं च
-
आत्मनि मोक्षे ज्ञाने वृत्ते ताते च भरतराजस्य । ब्रह्मेति गीः प्रगीता न चापरो विद्यते ब्रह्मा ॥ १ ॥
अन्यस्मिन् दिने चर्यावेलायां व्याधिपीडितक्षुल्लकरूपेण रेवतीगृहसमीपप्रतोलीमार्गे मायामूर्च्छया पतितः । रेवती तदाकर्ण्य भक्त्योत्थाप्य T नीत्वोपचारं कृत्वा पत्थ्यं विधापयितुमारेभे । स च सर्वमाहारं भुक्त्वा दुर्गन्धवमनं चकार । तदपनीय हा ! विरूपकं पथ्यं मया दत्तमिति रेवतीवचनमाकर्ण्य प्रतोषान्मायामुपसंहृत्य तां देवीं वन्दित्वा गुरोराशीर्वादं पूर्ववृत्तान्तं च कथयित्वा लोकमध्ये तस्या अमूढदृष्टिमुचैः प्रशस्य स्वस्थानं चन्द्रप्रभो जगाम । वरुणमहाराजस्तु शिवकीर्तये निजपुत्राय राज्यं दत्वा दीक्षामादाय माहेन्द्रकल्पे देवो बभूव । रेवती तु तपः कृत्वा ब्रह्मकल्पे देवो बभूव ।
इति श्रीभावप्राभूते भव्यसेनमुनिकथा समाप्ता । तुसमासं घोसंतो भावविसुद्धो महाणुभावो य । णामेण य सिवई केवलणाणी फुडं जाओ ॥ ५३ ॥ तुषमाषं घोषयन् भावविशुद्धो महानुभावश्च । नाम्ना च शिवभूतिः केवलज्ञानी स्फुटं जातः ॥
तुसमासं घोसंतो तुषमापशब्द घोषयन् पुनः पुनरुच्चारयन् मा वि - स्मृतिं यासीदिति कारणात् । भावविसुद्ध भावविशुद्धः । महाणुभावो य महानुभावश्च महाप्रभावयुक्तश्च । णामेण य सिवभूई नाम्ना च शिवभूतिः चकारादर्थेन च शिवभूतिः शिवानां सिद्धानां भूतिरैश्वर्य अनन्तचतुष्टयलक्षणं त्रैलोक्यनायकत्वं यस्य स भवति शिवभूतिः । केवलणाणी फुडं जाओ केवलज्ञानी केवलज्ञानवान् लोकप्रकाशकपंचमज्ञानवान्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org