SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ भावप्राभृतं । १९९ राजमहादेव्या रेवत्या धर्मवृद्धिरिति वक्तव्यं त्वया । एवं त्रीन् वारान् पृष्टो मुनिस्तदेवोवाच । क्षुल्लकः स्वगतं एकादशाङ्गधारिणो भव्यसेनाचार्यस्यान्येषां च नामापि भगवान् नादत्ते तत्र प्रत्ययेन भवितव्यमिति विचार्य तत्र गतः। सुव्रतमुनेर्भट्टारकीयां वन्दनां कथयित्वा तदीयं विशिष्टं वात्सल्यं च दृष्ट्वा भव्यसेनवसतिं जगाम । तत्र भव्यसेनेन संभाषणमपि न कृतं । कुण्डिकां गृहीत्वा भव्यसेनेन सह बहिर्भूमि गत्वा विकुर्वणां कृत्वा हरितकोमलतृणाङ्करच्छन्नो मार्गो दर्शितः । तं मार्ग दृष्ट्वा भव्यसेन आगमे किलैते जीवाः कथ्यन्ते इति भणित्वा आगमेऽरुचिं कृत्वा तृणानामुपरि गतः । शौचसमये कुण्डिकाजलं शोषयित्वा क्षुल्लक उवाच-भगवन् ! कुण्डिकायामुदकं नास्ति तथा विकृतिश्चेष्टिकादिका कापि नाहमीक्षे । अतोऽत्र निर्मलसरोवरे मृत्स्नया शौचं कुरु । ततस्तत्रापि तथैव भणित्वा शौचं चकार । ततस्तं मिथ्यादृष्टिं द्रव्यलिंगिनं ज्ञात्वा भव्यसेनस्याभव्यसेनोऽयमिति नामान्तरं चकार । ततोऽन्यदिने पूर्वस्यां दिशि पद्मासनस्थं चतुर्वक्त्रमुपवीतदर्भमुंजीदण्डकमण्डलुप्रभृतिसहितं देवदानववन्द्यमानं ब्रह्मरूपं दर्शयामास । तत्र राजादयो भव्यसेनादयश्च गताः । रेवती कोऽयं ब्रह्मनाम देव इति भणित्वा लोकैः प्रेरितापि तत्र न गता । अन्यस्मिन् दक्षिणस्यां दिशि गरुडारूढं चतुर्भुजं चक्रशंखगदादिधारकं वासुदेवरूपं दर्शयामास । पश्चिमदिशि वृषभारूढं सार्धचन्द्रजटाजूटगौरीगणोपेतं शंकररूपं, उत्तरस्यां दिशि समवशरणमध्ये प्रातिहार्याष्टकसहितं सुरनरविद्याधरमुनिवृन्दवन्द्यमानं पर्यकस्थं तीर्थकररूपं दर्शयति स्म । तत्र सर्वे लोका गच्छन्ति स्म । रेवती तु लोकैः प्रेर्यमाणापि न गता । नवैव वासुदेवाः, एकादशैव रुद्राः, चतुर्विंशतिरेव तीर्थकरा जिनागमे प्रतिपादितास्ते तु सर्वेऽ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy