________________
१९८
षट्प्राभूते
1
भार्याः पद्मकनकविनयरूपश्रियो भूत्वा निजभा सह दीक्षित्वाऽच्युतकल्पं गत्वा स्त्रीलिंगच्युता देवा भूत्वा पश्चादत्रागत्य मोक्षं यास्यन्ति । सागरदत्तनामा स्वर्ग गत्वात्रागत्य निर्वाणं यास्यति । इति जम्बूस्वामिचरित्रं श्रुत्वा श्रेणिको जहर्ष । इति श्रीभावप्राभते शिवकुमारकथा समाप्ता । अंगाई दस य दुण्णि य चउदसपुव्वाइं सयलसुयणाणं। पढिओ अ भव्वसेणो ण भावसवणत्तणं पत्तो ॥५२॥
अङ्गानि दश च द्वे च चतुर्दशपूर्वाणि सकलश्रुतज्ञानम् ।
पठितश्च भव्यसेनः न भावश्रवणत्वं प्राप्तः ॥ अंगाई दस य दुण्णि य अंगानि दश च द्वे च अङ्गे । चउदसपुव्वाई चतुर्दशपूर्वाणि सकलश्रुतज्ञानं । पढिओ अ पठितश्च । भव्वसेणो भव्यसेननामा मुनिः । ण भावसवणतणं पत्तो भावश्रवणत्वं न प्राप्तः । जैनसम्यक्त्वं विनाऽनन्तसंसारी बभूवेति भावार्थः । अत्र भव्यसेनो मुनिरेकादशाङ्गानि शब्दतोऽर्थतश्च पठितस्तद्बलेनैव द्वादशस्याङ्गस्य चतुर्दशपूर्वाणां चार्थपरिज्ञायकत्वात् श्रीकुन्दकुन्दाचार्येण सकलश्रुतमधीतं प्रोक्तमिति ज्ञातव्यं सकलश्रुतेऽधीती संसारे न पततीयागमः । भव्यसेनस्य कथा यथा-विजया गिरौ दक्षिणश्रेणी मेघकूटपत्तने राजा चन्द्रप्रभः सुमतिमहादेवीकान्तश्चन्द्रशेखराय राज्यं दत्वा परोपकारार्थ जिनमुनिवन्दनाभक्त्यर्थं च काश्चन विद्या दधानो दक्षिणमथुरामागत्य मुनिगुप्ताचार्यसमीपे क्षुल्लको जातः । स एकदा जिनमुनिवन्दनाभक्त्यर्थमुत्तरमथुरां चलितः सन् श्रीमुनिगुप्तमाचार्य पप्रच्छकिं कस्य कथ्यत इति । गुप्त उवाच-सुव्रतमुनेर्नमोऽस्तु वरुणमहा
१ यो. मूलगाथापाठः । २ घ. पुस्तके तु पूर्वत एव अभव्यसेन इति नाम कृतं, रत्नकरण्डकटीकायामत्र च पश्चात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org