________________
भावग्राभतं ।
१९७
गिति निन्दित्वा पुनः संयमं गृहीत्वाऽऽयुःप्रान्ते भ्रात्रा भगदत्तेन सह आराधनां शिश्राय । समाधिना मृत्वा माहेन्द्रकल्पे बलभद्रविमाने सामानिको देवः सप्तसागरोपमायुर्बभूव । अहं भगदत्तचरः सागरदत्तश्चक्रिसुतः संजातः । त्वं भवदेवचरः शिवकुमारोऽत्र बभूविथ। स इति श्रुत्वा संसाराद्विरक्तो दीक्षां गृहीतुमुद्यक्तो बभूव । वनमालया मात्रा महापद्मन पित्रा च वारितो वीतशोक नगरं प्रविश्य संजातसंवित् अप्रासुकाहारं नाहरिष्यामीति व्रतं गृहीत्वा स्थितः । एतावतीदीक्षां विना प्रासुकाहारः कुतः ? भूपस्तद्वार्ती श्रुत्वा प्राह-यः कोऽपि शिवकुमारं भोजयति तस्मै संप्रार्थितमहं दास्यामीति सभायां घोषयामास । तद्विज्ञाय सप्तस्थानसमाश्रयो दृढधर्मनामा श्रावकः समागत्य शिवकुमारं प्राह । अथ कानि तनि सप्तस्थानानीति चेत्
सज्जातिः सद्गृहस्थत्वं पारिव्राज्यं सुरेन्द्रता। साम्राज्यं परमार्हन्त्यं निर्वाणं चेति सप्तधा ॥ १ ॥ अथ दृढधर्मा किं प्राहेति चेत् ? हे कुमार ! तव ज्ञातयः तव शत्रवः पापस्य कारणं स्वपरघातका वर्तन्ते । तेन त्वं भावसंयममघातमकृत्वा तव प्रासुकाशनं संपाद्य पर्युपासनमहं कुर्वे । बन्धुवियोगं विना संयमे प्रवृतिस्तवापि दुर्लभेति हितं वचनं जगाद च । सोऽपि तद्विदित्वा आचाम्लनिर्विकृतिरसरहितभोजनः सन् दिव्यस्त्रीसन्निधौ स्थित्वापि सदा विकाररहितमनाः स्त्रियस्तृणाय मन्यमानः खड्गतीक्ष्णधारायां संवर्तमानो द्वादशसंवत्सरांस्तपः कृत्वा संन्यासं गृहीत्वा जीवितान्ते ब्रह्मेन्द्रनीम्नि कल्पे विद्युन्माली देहदीप्तिव्याप्तदिक्तटो देवो बभूव । विद्युन्मालिन एवाष्टदेव्योऽत्रागत्य जम्बूनाम्नः तेत्र चतस्रो
१ एतां दीक्षां. ख. । २ तासु अष्टसु मध्ये ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org