SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ षट्प्राभृतेश्रुतिगतिप्रभृतिहीनं सर्पादिबाधानिकटं तस्मानिर्गमनोपायमजानन्तं तं कोऽपि भिषग्वरो यदृच्छया गच्छन् दृष्ट्वा दयाचित्तः केनाप्युपायेन महादरान्निष्काश्य मंत्रौषधिप्रयोगेण विहितचरणप्रसारणं सूक्ष्मरूपसमालोकनोन्मीलितनेत्रं स्फुटाकर्णने विज्ञाननिजशक्तिकर्णयुगलं व्यक्तवाक्प्रसरसंयुक्तजिव्हं स चकार । पुनः सर्वरमणीयं पुरं तन्मार्गदर्शनेन प्रस्थापयामास । निर्मलहृदयाः कस्योपकारं न विदध्युः । पुनः स विषयासक्तमतिः पंथिकदुर्मतिः प्रकटीकृतदिग्भागमोहः प्राक्तनकूपकं सम्प्राप्य तस्मिन् पुनः पतितः तथा कचित्संसारे मिथ्यात्वादिकपंचोग्रव्याधयो दीप्त्युपागता जन्मकूपे क्षुधादाहाद्यार्त्तमङ्गिनं वीक्ष्य गुरुः सन्मतिर्वैद्यो दयालुत्वाद्धर्माख्यानोपायपण्डितस्तस्मानिर्गमय्य जिनवागौषधिनिषेवना (णा) त् सम्यक्त्वलोचनमुन्माल्य सम्यग्ज्ञानश्रुतियुगलमुद्घाटय्य सद्वृत्तपादौ प्रसारितौ विधाय दयामयीं जिव्हां व्यक्तां विधाय विधिपूर्व पंचप्रकारस्वाध्यायवचनानि तं वादयित्वा स्वर्गापवर्गयोर्मार्ग सुधीः साध्वगमयत् । तत्र केचिद्दीर्घसंसाराः स्वपापोदयात् भ्रमरा इव सुगन्धिबन्धुरोद्भिन्नचम्पकसमीपवर्तिनस्तत्सौगन्ध्यावबोधरहिताः पार्श्वस्थाख्याः सम्यग्दर्शनज्ञानचारित्रसमीपवर्तनात् , क्रोधादिकषायस्पर्शादिविषयलौकिकज्ञानचिकित्सादिकुज्ञानाः जिव्हायामष्टधा स्पर्शेषु च लम्पटा दुराशयाः कुशीलनामानः, निषिद्धेषु द्रव्येषु भावेषु च लोलुपाः संसक्ताव्हयाः, हीयमानज्ञानादिका अवसानसंज्ञाः, समाचारबहिर्भूता मृगचर्यानामधेयका महामोहा निवृत्या कृत्वा आजवंजवाऽस्ताघकूपे पेतुर्निपतन्ति च (३)। भवदेव इति श्रुत्वा सम्प्राप्तशान्तभावो बभूव । सुव्रता गणिनी सर्वार्याग्रेसरी तद्विज्ञाय दारिद्योत्पादितदौस्थित्यां नागश्रियमानाय्य तं दर्शयामास । भवदेवोऽपि तां दृष्ट्वा संसारस्थिति स्मृत्वा धि १ आजवंजवांगत्वाद्यकूपे ख.पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy