________________
भावप्राभतं ।
१९५
दत्तः स्वगुरुसुस्थितसमीपं तं नीत्वा संसारच्छेदनार्थं मोक्षी दीक्षां मंक्षु ग्राहयांबभूव । सतां सौदर्यमीदृग्भवति । भवदेवो द्रव्यसंयमी भूत्वा गुरुभिः समं द्वादशवर्षाणि विहृत्यापरेधुर्विधीरसहायो निजं वृद्धग्रामं गत्वा सुव्रतां गणिनी समीक्ष्य तां प्राह-हे ऽम्ब ! काचिन्नागश्री म काचिदस्ति । सा तस्यङ्गितं ज्ञात्वा जगाद-मुने ! तदुदन्तमहं सम्यग्न वेदेति । तदौदासीन्यं प्राप्तं तं संयमे स्थिरीकर्तुं गुणवृत्यार्यिकां प्रति अर्थाख्यानकं जगाद । सर्वसमृद्धनामा वैश्यः, तद्दासीसुतोऽशुचिर्दारुकाभिधेयः स्वमात्रा प्रोचे-अस्मच्छ्रेष्टयुच्छिष्टभोजनं तु त्वयाऽशनीयमिति । निबन्धाद्भोजितः । स जुगुप्सया वान्तवान् । तत् कंसपात्रेण धृत्वाऽऽच्छाद्य धृतं । दारुकः पुनर्बुभुक्षुः स्वमातरं भोजनं ययाचे । तया तत्कंसपात्रं वान्तभतमुपढौकितं । क्षुत्पीडितोऽपि स आत्मवान्तं न जग्राह । सोऽशुचिरपि चेत्तादृशस्तर्हि साधुः कथं त्यक्तमभीप्सतीति (१)। गुणवति ! पुनरेकमाख्यानकं निजं मनो निश्चलं कृत्वा त्वं शृणु। नरपालनामा नरेन्द्र एक श्वानं कुतूहलेन मृष्टान्नेन संपोष्य कनकाभरणभूषितं सदा वनक्रीडादौ सुवर्णरचितां शिबिकामारोप्यैवं मन्दमतिस्तमपालयत् । एकदा शिबिकारूढः सरमासुतो गच्छन् बालविष्टामालोक्य तामालेढुमापपात ! तदृष्ट्वा राजा लकुटीताडनेन तमपाचकार । तथा पुत्रि! साधुः सर्वेषां पूजनीयः पूर्वत्यक्तं पुनर्वाञ्छन् पराभवं प्राप्नोति (२)। हे गुणवति ! पुनरेका कथां शृणु-कचित्कोपि पथिकस्तद्वनान्तरे सुगन्धिफलपुष्पादिसेवया युतस्तं तरं त्यक्त्वा सन्मार्ग विहाय महाटवीसंकटे पतितः । तत्र जिघांसुकं चमूरं दृष्ट्वा ततो भीत्वा धावन्नेकस्मिन् भीमे कूपे बिभ्यत् पपात । तत्र पापाच्छीतादिभिर्दोषत्रयसंभवे वाग्दृष्टि
१ मोक्षदीक्षां. ख. । २ अज्ञानः । ३ तत्पित्राद्युच्छिष्ट०. ख. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org