________________
१९४
षट्प्राभते
मेघस्तिष्ठति । तं मेघ लोचनप्रिय सोन्मुखो निरीक्षितुमैहिष्ट । स मेघस्तत्काल एव नष्टः । सागरदत्तश्चिन्तयामास यौवनं धनं शरीरं जीवितमन्यच्च सर्व वस्तु विनश्वरं वर्तते यथायं मेघ इति निर्वेगं गतः । अपरेधुर्मनोहरोद्याने धर्मतीर्थनायकममृतसागरं नाम तीर्थंकरं वज्रदत्तेन निजवात्रा सह वन्दितुमितः । तत्र धर्म श्रुत्वा निश्चितसर्वस्थितिः सर्वबन्धुविसर्जनं कृत्वा बहुभी राजभिः समं संयम जग्राह । मनःपर्ययद्धिसम्पदं प्राप्य धर्मोपदेशेन देशान् विहृत्यात्र वीतशोकपुरमागतः । इति मंत्रिपुत्रवचनानि श्रुत्वा शिवकुमारः प्रीतमनाः स्वयं च गत्वा मुनिवरं स्तुत्वा धर्मामृतं ततः पीत्वा जगाद । भगवन् ! भवन्तं दृष्ट्वा मम महान् स्नेहः संजातः । तत्र कः प्रत्यय इत्यपृच्छत् । भगवान् सागरदत्तः प्राह-अत्र जम्बूद्वीपे भरतक्षेत्रे मगधदेशे वृद्धग्रामे राष्ट्रकूटो नाम वणिक् । तस्य भार्या रेवती । तयो? पुत्रौ भगदत्तभवदेवौ । तयोर्मध्ये भगदत्तः सुस्थितनामगुरुं नत्वा दीक्षां जग्राह । विनयान्वितो गुरुणा सह नानादेशान् विहृत्य स्वजन्मग्राममाजगाम । तदा तद्बान्धवाः सर्वेऽपि हर्षमाणाः समेत्य मुनि सुस्थित प्रदक्षिणीकृत्य संपूज्य चागन्तुमुद्यताः। तत्रैव ग्रामे दुर्मर्षणो नाम गृहपतिः । तस्य नागवसुर्भार्या । तयोः पुत्री -नागश्रीः । सा विधिपूर्वकं भवदेवाय ताभ्यां ददे । भगदत्तागमनं श्रुत्वा भवदेवोऽपि विकुर्वाणोऽत्रागत्य भगदत्तं विनयात्प्रणम्य तद्दत्ताशीर्वादेनार्द्रितमनास्तस्थिवान् । भगदत्तो धर्मस्वरूपं संसारवैरूप्यं व्याख्याय गृहीतकर एकान्ते भ्रातः! त्वया संयमो गृहीतव्य इत्याह । भवदेव उवाच-नागश्रीमोक्षणं विधाय भवत उदितं करिष्यामि । भगदत्त उवाच-हे भ्रातः! संसारे जायादिपाशबद्धो जीवः कथमात्महितं करोति परित्यज मोहमेतमिति । तदा भवदेव उत्तरमपश्यन् ज्येष्ठानुरोधेन दीक्षायां मतिं विदधौ । भग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org