________________
भावप्राभतं ।
१९३
चारेण दरिद्री संजातः । पश्चादुत्पन्नपश्चात्तापो मत्पितुः शिक्षा मया न श्रुता, उत्पन्नशमभावः किंचित्पुण्यमुपाया॑नावृतनामा व्यन्तरो जातः, तत्र समुत्पन्नसम्यक्त्वसम्पदिति बन्धुता प्रीतिरस्य । अथ श्रोणिकः प्राह-स्वामिन्नयं विद्युन्माली देवः कस्मादागतः, किं पुण्यं पूर्वभवे कृतवान्, अस्य प्रभा आयुरन्तेऽप्यनाहतेति । तदनुग्रहबुद्धयैव भगवान् गौतमः प्राह-अत्र जम्बूद्वीपे पूर्वविदेहे पुष्कलावतीविषये वीतशोकपत्तने महापद्मो राजा । तन्महादेवी वनमाला। तयोः सुतः शिवकुमारः नवयौवनसम्पन्नः सवयोभिर्वनं विहृत्य पुनरागच्छन् गन्धपुष्पादिमंगलद्रव्योत्तमपूजया सह जनानागच्छतो दृष्ट्वा समुत्पन्नविस्मयो बुद्धिसागरमंत्रिणः पुत्रं किमेतदिति पप्रच्छ। सप्राह-कुमार! शृणु-सागरदत्तनामा मुनीन्द्रः श्रुतकेवली दीप्ततपोमण्डितो मासोपवासपारणायै पुरं प्रविष्टः। कामसमुद्रो नाम श्रेष्ठी विधिपूर्वकं भक्त्या दानं दत्वा पंचाश्चर्य प्राप्य तेनोत्पन्नकौतुकाः पौरास्तं मनोहरोद्यानवासिनं पूजयित्वा वन्दितुं परमभक्त्या यान्तीति। शिवकुमारः प्राह-अयं सागरदत्ताख्यां सश्रुतां विविधर्तीश्च कथं प्राप। मंत्रिपुत्रोऽपि यथा श्रुतं तथा प्राह-पुष्कलावतीविषये पुण्डरीकिणी नगरी, तस्याः पतिश्चक्री वज्रदत्तः । तस्य महादेवी यशोधरा गर्भिणी समुत्पन्नदौहृदा। सा सीतासागरसंगमे महाविभूत्या गत्वा महाद्वारेण समुद्रं प्रविष्टा । जलकेलीविधाने जलजानना आसन्ननिर्वृतिं पुत्रं प्राप। तेन हेतुनास्य सनाभयः सागरदत्ताख्यां चक्रुः । अथ सागरदत्तः परिप्राप्तयौवनः स्वपरिवारमण्डितो हर्म्यतले स्थितो नाटकं पश्यन्ननुकूलाख्यनाम्ना चेटकेनोक्तः । हे कुमार ! त्वमाश्चर्य पश्य मेर्वाकारोऽयं
१ ख. पुस्तकेऽस्य स्थाने प्राप्तेनेति पाठः सोऽप्यशुद्धोऽवभाति । अतोस्य स्थाने प्राप्तः इति प्राप इति वा पाठेन भवितव्यं । २ पुअयितुं इति ख. पुस्तके । एतदेव सम्यग्भाप्ति । ३ गोत्रिणः ।
षद. १३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org