________________
१९२
षट्प्राभूतेतिविरागत्वं यास्यन्ति । तदान्धकारं निराकृत्य कोकं प्रियया कुमारं दीक्षयेव योजयन् निजकरैः समाक्रम्य कुमारस्य मनःकमलमिव रंजयन्नुदयाद्रेः शिखरे रविस्तपसि कुमार इवोदष्यति । सर्वसन्तापकारी तीक्ष्णकरोऽनवस्थितः क्रूरो दिवाकुवलयध्वंसी तदा सूर्यः कुनपस्योपमां धरिष्यति । नित्योदयो बुधाधीशोऽखण्डविशुद्धमण्डलः प्रवृद्धः पद्माल्हादी सुराजनं वाय॑माजेष्यति । अस्य कुमारस्य बान्धवा भववैमुख्यं विज्ञाय कुणिपमहाराजश्रेणयोऽष्टादशापि देवोऽनावृतश्च सर्वे संगम्य मंगलजलैरभिषेकं करिष्यन्ति । अथ कास्ता अष्टादशश्रेणयः-सेनापतिर्गणको राजश्रेष्ठी दण्डाधिपो मंत्री महत्तरो बलवत्तरः चत्वारो वर्णः चतुरङ्गं बलं पुरोहितोऽमात्यो महामात्य इति । असौ कुमारस्तत्कालोचितवेषो देवनिमितां शिबिकामारुह्य भूरि भूत्या उच्चैर्विपुलाचलशिखरे स्थितं मां महामुनिभिनिषेवितं समभ्येत्य भक्त्या त्रिःपरीत्य यथाविधि प्रणम्य वर्णत्रयसमुत्पन्नैर्भूयोभिविनयैर्विद्युच्चोरेण तत्पंचशतसेवकैश्च समं सुधर्मगणधरपादमूले समचित्तः संयम ग्रहीष्यति । द्वादशवर्षान्ते मयि मोक्षं गते सुधर्मा केवली भविष्यति जम्बूनामा श्रुतकेवली भविष्यति । ततो द्वादशवर्षपर्यन्ते सुधर्मणि निर्वाणं गते जम्बूनाम्नः केवलज्ञानमुत्पत्स्यते । जम्बूनाम्नः शिष्यो भवो नाम चत्वारिंशद्वर्षाणीह भरतक्षेत्रे विहरिष्यति। तदाकर्ण्य श्रेणिके स्थितेऽनावृतो देवो मदीयवंशस्येदं माहात्म्यमुद्धृतमीदृशमन्यत्र न दृष्टमित्युच्चैरानन्दनाटकं दृष्ट्वा श्रेणिक उवाच-कस्मादनेनबन्धुत्वमस्य देवस्येति ? भगवान् गौतमो बभाण-जम्बूनाम्नो वंशे पूर्व धर्मप्रियश्रेष्ठी गुणदेवी श्रेष्ठिनी । तयोरर्हद्दासः सुतो धनयौवनमदेन पितुः शिक्षामगणयन् कर्मवशात् सप्तव्यसनेषु निरंकुशो बभूव । निजदुरा
१ तपति ख.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org