SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ भावप्राभृतं । १९१ लम्बनोपायं दर्शयामास । स्वकीयं मर्दलं वृक्षतले समुद्रं संस्थापयांबभूव । तस्या गलपाशदानशिक्षणार्थ मर्दलोपरि पादौ धृत्वा गले पाशं चकार । केनापि कारणेन मर्दले पतिते मार्दङ्गिकस्य गले पाशो लग्नस्तेनाविलीभूतकण्ठः प्रोद्गतलोचनः शमैनमन्दिरं प्राप। कन्या तदृष्ट्वा मरणभयात् गृहमागता तथा कुमार ! त्वया लोभो हेयः (७) । इति तस्य वाग्जालमाकर्ण्य जम्बूनामा कुमारोऽसहमानस्तं प्रति भणिष्यतिकस्यचिद्राज्ञो महादेवी ललिताङ्गनामधेयं धूर्तविटं दृष्ट्वा मदनविव्हला संजाता । तस्य विटस्यानयननिरन्तरोपायनियुक्ता तद्धात्री तं गुप्तमानीतवती । सा महादेवी यथा भर्ता न जानाति तथैकान्तप्रदेशे यथेष्टं तं रममाणा स्थिता । बहुभिर्दिनैः शुद्धान्तरक्षकैः ज्ञाता राज्ञो ज्ञापिता च । उपपत्यपनयनोपायमजानत्यः परिसारिकास्तं खलं नीत्वा वस्करगृहे निक्षिप्तवत्यः । स तत्रातिदुर्गन्धेन तत्कीटैश्च दुःखं प्राप । पापोदयेनात्रैव नरकावासं प्राप्तः । तद्वदल्पसुखाभिलाषिणो जीवस्यातिघोरनरकादिषु महापदो भवन्ति (८)। कुमारः पुनरप्यकं प्रपंचं कथयिष्यति येन श्रुतेन सतां लघु संसारनिर्वेगो भवति। जीवोऽयं पथिकः संसारकान्तारे भ्राम्यनं मृत्युमत्तगजेन जिघांसुना रुषानुयातोऽतिभीरुः पलायमानो मनुष्यत्वतरुवरान्तरहितस्तन्मूले कुलगोत्रादिविचित्रबल्लीसमाकुले जन्मकूपे पतित आयुर्वल्लीलग्नकायः सितासितदिवसानेकमूषिकोच्छिद्यमानतद्वल्लीकः सप्तनरकप्रसारितमुखसप्तसर्पनिकटः तदृक्षेष्टार्थपुष्पोत्पन्नसुखमधुरसलालसस्तद्ग्रहणोत्थापितसमुप्रापन्मक्षिकाभक्षितः तत्सेवासुखं ज्ञात्वा सर्वोऽपि विषयलंपटो दुर्बुद्धिर्जीवति तथा धीमान् दुर्वहं तपोऽकुर्वन्नत्यक्तसंगः कथं वर्तते । इति तस्य वचनमाकर्ण्य माता कन्याश्चौरश्च संसारशरीरभोगेष्व १ अवलंबीभूत. ख. । २ यममन्दिर. ख.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy