________________
षट्प्राभृतेजातेन स्वल्पेन गजकर्णास्थिरेणास्वादुना तृप्तिं यायात्-अपि तु न यायात् (२)। इति तद्वाचं श्रुत्वा स एकागारिकः कथयिष्यति कथां-एकस्मिन् वने किरातश्चण्डो महातरुमाधारं कृत्वा गण्डान्तं धनुराकृष्य बाणेन वारणं जघान । तरुकोटरस्थितसर्पदष्टस्तं सर्प मारयित्वा स्वयं च मृतः । अथ तान् त्रीन् किरातसर्पगजान् मृतान् दृष्ट्वा क्रोष्टाऽतिलुब्धस्तावदेताँस्त्री न्नानि पूर्व धनुर्वी प्रान्तस्थितां च स्नसां भक्षयामीति कृतोद्यमस्तच्छेदं वैधेयश्चकार । सद्यो धनुरग्रनिभिन्नगलः सोऽपि मृतः। ततोऽतिगृध्नुता त्वया त्याज्या (३)। इति श्रुत्वा कुमारश्चिन्तयित्वा सूक्तं प्रवक्ष्यतिचतुर्मार्गसमायोगदेशमध्ये सुग्रहं रत्नराशिं प्राप्य पथिको मूर्खस्तदात्मना दायकेनापि कारणेन गतः पुनर्वनादागत्य तं देशं तं रत्नपुंजं किं पुनर्लभते तथा गुणमाणिक्यसंचयं दुष्प्रापमगृह्णन् संसारसमुद्रे कथं पुनः प्राप्नुयात् (४)। तदा मलिम्लुचोऽन्यदन्यायसूचनमुपाख्यानं वदिष्यति-- कश्चिच्छगालो मुखस्थितं मांसपिण्डं मुक्त्वा संक्रीडमानं मीनं भक्षितुं जले पपात । जलवेगवहत्प्रवाहेण प्रेर्यमाणो मृतः । मीनस्तु दीर्घायुजलमध्ये सुखं तस्थौ । एवं शृगालवदतिलुब्धो मरिष्यति (५) । एवं मुख्यतस्करवाचं श्रुत्वा प्रत्यासन्नमुक्तिः कुमारो भणिष्यति-कश्चिन्निद्रालुको वणिक् निद्रासुखरतः परार्घ्यरत्नगर्भनिजकच्छपुटः सुप्तः । चौरैरपहृते माणिक्यसंचये तदुःखेन दुर्मृतिर्मृति प्राप । तथायं जीवो विषयाल्पसुखासक्तो रागचौरकैर्दर्शनज्ञानचारित्ररत्नेष्वपहतेषु निर्मूलं नश्यति (६)। दस्युरथ गदिष्यति-स्वमातुलानी दुर्वचनकोपेन काचित्कन्या तरुतले सर्वाभरणमण्डिता स्थिता । मरणोपायमजानती व्याकुलमनाः सुवर्णदारकेण पापिना मार्दङ्गिकेण दृष्टा । तदाभरणानि जिघृक्षुणा तस्या
१ वैधेयकः ख.। २ तदातमना क.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org