SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ भावप्राभतं । वन्दनीयोऽगुणवानुत्सुकश्च तीक्ष्णो विद्युत्प्रभनामा केनापि कारणेन निजज्येष्ठभ्रात्रे कुपित्वा पंचशतसुभटैर्निर्गतो विद्युच्चोरनामानमात्मानं कृत्वा चौरशास्त्रोपदेशेन मंत्रतंत्रविधानाददृश्यशरीरत्वकपाटोद्घाटनादिकं जानन्नर्हद्दासगृहाभ्यन्तररत्नधनादिकं चोरयितुं प्रविश्य जिनदासी नष्टनिद्रां विलोक्यात्मानं निवेद्य किमर्थ विनिद्रा त्वमेवमिति प्रक्ष्यति ? मम एक एव पुत्रः प्रातरेवाहं तपोवनं गमिष्यामीति संकल्पस्थितो वर्तते तेनाहं शोकिनी सती जागर्मि । त्वं बुद्धिमान् दृश्यसे यदि त्वमिममानहादुपायैर्वारयसि तत्त्वदभीप्सितं धनं सर्वमहं दास्यामीति वदिष्यति। सोऽपि तत्प्रतिपद्यैवं सम्पन्नभोगोऽयं किल विररस्यति, इह धनमाहर्तुं प्रविष्टं मां धिगिति स्वनिन्दनं कुर्वन्निःशंकं तदन्तिकं प्राप्य तं तासां कन्यकानां साध्यतयाधिष्ठितं कुमारं प्रसरत्सद्बुद्धिं पंजरगतं पक्षिणमिव, जाललग्नं मृगबालकमिव, अपारकर्दमे मग्नं भद्रजातिगजाधिपतिमिव, लोहपं. जरैर्निरुद्धं सिंहमिव प्रत्यासन्नसंसारक्षयं सम्प्राप्तनिर्वेदं समीक्ष्य विद्युच्चोरः सुधीरष्टाख्यानकं वदिष्यति । हे कुमार ! त्वया श्रूयतां-कश्चित्क्रमेलकः स्वच्छया चरन्नेकदा गिरेरुन्नतप्रदेशात् तृणं खादन्नेतन्मधुरसोन्मित्रं सकृदास्वाद्योत्सुकस्तादृशमेवाहमाहरिष्यामीति मधुपानाभिवाञ्छया तृणान्तरचरणातिपराङ्मुखस्तस्थौ मने च तथा त्वमप्येतानुपस्थितान् भोगाननिच्छन् स्वर्गभोगार्थी बुद्धिरहितः क्रमेलकावस्थां प्राप्स्यसि (१) । इति चौरप्रतिपादितं श्रुत्वा कुमारः प्रत्युत्तरं दास्यति-कश्चित्पुमान् महादाहकरेण रविणा परिपीडितो नदीसरोवरतडागादिपानीयं पुनः पुनः पीत्वा तथापि न विनष्टतृष्णस्तृणाग्रस्थितजलकणं पिबन् किं तृप्तिं याति तथायं जीवोऽपि चिरकालं दिव्यसुखं भुक्त्वाप्यतृप्तोऽनेन मनुष्यभव १ विलसति ख.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy