________________
१८८
षट्प्राभृते
सरोवरं शालिवनं निर्धूमानलं प्रज्वलज्ज्वालं स्वर्गकुमारसमानीयमानजम्बूफलानि च स्वने दर्शयित्वा महाद्युतिर्जम्बूनामाऽनावृतदेवाप्तपूजोऽतिविख्यातो विनीतः सुतो भविष्यति । यौवनारम्भेऽपि निर्विक्रियो भावी । तस्मिन् जम्बूस्वामियौवनकाले श्रीवीरभट्टारकः पावापुरे मुक्ति यास्यति तस्मिन्नेव समये मम केवलज्ञानमुत्पत्स्यते । सुधर्मंगणधरेण सह संसाराग्निततानां भव्यप्राणिनां धर्मामृतोदकेनाल्हादं करिष्यन्निदमेव राजगृहपत्तनमागत्यास्मिन्नेव विपुलाचलेऽहं स्थास्यामि । तत्समाकर्ण्य चेलनीसुतः कुणिको नृपः सर्व परिवारेण समागत्य मां सुधर्मे च पूजयित्वा दानशीलोपवासादिकं स्वर्गमोक्षसाधकं धर्मं ग्रहीष्यति । तेन सहागतो जम्बूनामा निर्वेदं प्राप्य दीक्षाग्रहणोत्सुको भविष्यति । तं कुटुम्बं वदिष्यति स्तोकेषु वर्षेषु गतेषु त्वया सह वयं सर्वेऽपि दीक्षां ग्रहीष्याम इति । तेन प्रोक्तं सोढुमशक्नुवन्निराकर्तुं च तदक्षमः पुरमायास्यति । तस्य मोहमुत्पादयितुं सुखबन्धनं' विवाह आरप्स्यते तेन कुटुम्बवर्गेण । बान्धवा हि श्रेयसो विघ्नाः । सागरदत्तपद्मावत्योः सुता श्रियोत्कृष्टा सुलक्षणा पद्मश्री, कुवेरदत्तकनकमालयोः सुता सुलोचना कनकश्रीः, वैश्रवणदत्तविनयवत्योर्धूदाँ मृगलोचनावलोकनीया विनयश्रीः तस्यैव वैश्रवणदत्तस्य धनश्रियाः सुता रुपश्रीः एताश्चतस्रो विधिपूर्वकं परिणीय सौधागारे समीचीनरत्नदीप - दीप्तिभिर्निरस्तान्धकारे नानारत्नसमीचीन चूर्णरंगवली संशोभिते विचित्रपुष्पोपहारसहिते जगतीतले स्थास्यति । एतस्य माता अयं मे सुतो रागेण प्रेरित: स्मितहासकटाक्षेक्षणादिना विकृति भजन् किं भवेन्न वा भवेदित्यात्मानं तिरोधाय पश्यन्ती स्थास्यति । तस्मिन्नवसरे सुरम्यदेशपोदनापुरेशविद्यद्राजविमलवत्योः सुतः पापिष्ठानां धुरि स्मर्यो दुरात्मनां
२ बो ख. कर्तृ । ३ न ख. । ४ सुता. ख. 1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org