________________
भावप्राभृतं ।
१८७
विष्णुर्जरत्कुमारभिल्लेन पादे बाणेन ताडितो मृतः प्रथमं नरकं जगाम ।
द्वीपायनस्तु अनन्तसंसारी बभूव ।
भावसवणो य धीरो जुवईयेणवेदिओ विसुद्धमई । णामेण सिवकुमारो परित्तसंसारिओ जादो ॥ ५१ ॥
भावश्रमणश्च धीरो युवतिजनवेष्टितो विशुद्धमतिः । नाम्ना शिवकुमारः परीतसंसारिको जातः ॥
भावसवणो य धीरो भावश्रवणश्च जिनसम्यक्त्ववासित: धीरो दृढसम्यक्त्व अविचलितामलिनमनाः । जुवईयण वेढिओ विसुद्धमई युवतिजनवेष्टितः हाव भावविभ्रमविलासोपेतराजकन्यामयुवति समूह परिवृतोऽपि विशुद्धमतिः निर्मल ब्रह्मचर्यनिष्कलुषचित्तः । णामेण सिवकुमारो नाम्ना कृत्वा शिवकुमारो नरेन्द्रपुत्रः । परित्तसंसारिओ जादो अल्पसंसारिकः परित्यक्तसंसार आसन्नभव्यो जातः, इह भरतक्षेत्रे जम्बूनामान्त्यकेवली बभूवेति क्रियाकारकसम्बन्धः । शिवकुमारस्य कथा यथा - अथ श्रोणिकः श्रीवीरं विपुलगिरौ समवस्थितं प्रणम्य श्रीगौतमस्वामिनं प्रत्याह- अत्र भरतक्षेत्रे पश्चिमकेवली को भविष्यति भगवन्निति । ततः कथां यावन्निरूपयितुं श्रीगौतम उद्यमं करोति स्म तस्मिन्नेवावसरे ब्रह्मकल्पाधीशो ब्रह्महृदयाव्हविमाजो विद्युन्माली जाज्वल्यमानतेजोविराजमानमुकुटः स्वनाम्ना स्वदर्शनेन चप्रियो विद्युत्प्रभाविद्युद्वेगादिनिजदेवीभिर्वृत आगत्य जिनं वन्दित्वा यथास्थानं स्थितः । तं दृष्ट्वा राजन् ! अनेन केवलज्योतिषः परिसमाप्तिर्भविष्यति । तत्कथं चेत्कथयिष्यामि । अस्माद्दिनात् सप्तमे दिनेऽयं ब्रह्मेन्द्रः स्वर्गादभेत्यास्मिन् राजगृहे नगरेऽर्हद्दासेभ्यस्य प्रियभार्याजिनदास्यां गजं
१ जुयईयण ग. । २ ती. टीकायां । ३ धनिनः । ४ सी. क. स्यं. ख. ।
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org