________________
१८६
षट्प्राभूते--
प्रमुक्तकुन्तलाः पुष्पकृतावतंसाः कण्ठालम्बितपुष्पमालाः सर्वे पुरं समागच्छन्तः सूर्यप्रतिमास्थितं द्वीपायनमुनिं दृष्ट्वा घूर्णमाननयना इत्यूचुःसोऽयं द्वीपायनो यतिर्यो द्वारवती धक्ष्यति सोऽस्माकमग्रतः क्व यास्यति बराक इति प्रोच्य सर्वतो लोष्टुभिः पाषाणैश्च तावत्प्रजघ्नुर्यावद्भूमौ पपात । एवं तैनिसूकैस्ताडित उत्पन्नाधिकक्रोधो दष्टोष्ठो यदूनां स्वतपसश्च विनाशाय भ्रकुटिं चकार।कुमारास्तु पुरीं प्रति गमनं चक्रुः कैश्चित्तदुराचारो विष्णोर्बलस्य लघु निवेदितः। तच्छृत्वा द्वारवत्या प्रलयं जिनोक्तं प्राप्तं तदापि मेनाते परिच्छदरहितौ मुनिसमीपं गतौ । अग्निमिव ज्वलन्तं क्रोधेन संक्लिष्टधियं भ्रभंग विषमवक्त्रं दुनिरीक्ष्येक्षणं क्षीणकण्ठगतप्राणं विभीषणस्वरूपं ददृशतुः । कृताञ्जलिपुटौ महादरात्प्रणिपत्य याचनां वन्ध्यां जानन्तावपि मोहाद्याचितवन्तौ । हे साधो! चिरं परिरक्षितस्तपोभारः क्षमामूलः क्रोधाग्निना धक्ष्यते मोक्षसाधनं परिरक्ष्यतां परिरक्ष्यतां । मूढैः प्रमादबहुलैर्दुविचेष्टितं भवतः कृतं क्षम्यतां क्षम्यतां । क्रोधश्चतुर्वर्गशत्रुः, क्रोधः स्वपरनाशनः, अस्मभ्यं प्रसादः क्रियतां मुने! इति प्रियवादिनौ तौ पादयोर्लगित्वा प्रार्थितवन्तौ तथापि सोऽनिवर्तकः संजातः । सर्वप्राणिसंयुक्तद्वारवतीदाहे. पापधीः कृतनिश्चयः युवामेव न धक्ष्यामीत्यङ्गुलिद्वयेन संज्ञा चकार । अनिवर्तकक्रोधं ज्ञात्वा विषण्णौ व्याघुव्य किं कर्तव्यतामूढौ पुरीं प्रविष्टौ । तदा शंभवाद्याश्चरमाङ्गका यादवाः पुर्या निष्क्रम्य दीक्षां गृहीत्वा गिरिगुहादिषु तस्थिवांसः । द्वीपायनस्तु क्रोधशल्येन मृत्वा भवनामरो बभूव । सोऽग्निकुमारनामा विभंगेन पूर्ववैरं स्मृत्वा द्वारवती बालवृद्धस्त्रीपशुसमेतां विष्णुबलौ मुक्त्वा ददाह । तौ दक्षिणापथे वनं प्रविष्टौ । तत्र
१ निर्दयैः । २ तदपि सेनातो. ख. । ३ समीपमागतो. ख.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org