________________
भावप्राभतं ।
१८५
अवरोत्ति दव्वसवणो अपर इति द्रव्यश्रवणो भावरहितो मुनिः जिनवचनप्रतीतिरहितः । दसणवरणाणचरणपन्भट्ठो दर्शनेन जिनसम्यक्त्वेन वरं श्रेष्टं यज्ज्ञानं चरणं च चारित्रं तेभ्यस्त्रिभ्योऽपि प्रभृष्टः पतितः सम्यग्दृष्टीनां मुनीनामपाङ्क्तेयः। दीवायणुत्ति णामो द्वीपायन इति नामा। अणंतसंसारिओ जादो अनन्तसंसारिकः अनन्ते संसारे नियुक्तः नियोगवान् कर्मपरवश इत्यर्थः, जातो भवति स्म । द्वीपायनस्य कथा यथा-श्रीनेमिनाथो बलभद्रेण पृष्टः स्वामिन् ! इयं द्वारवती पुरी किं कालान्तरे समुद्रे निमक्ष्यति कारणान्तरेण वा विनंक्ष्यति ? भगवानाह-रोहिणीभ्राता द्वीपायनकुमारस्तव मातुलोऽस्याः पुर्या रुषा दाहको भविष्यति द्वादशे वर्षे मद्यहेतुत्वात् । तच्छृत्वा द्वीपायनकुमार इदं जैनवचनमसत्यं चिकीर्षुदीक्षां गृहीत्वा पूर्वदेशं गतः। द्वादशावधिपूरणार्थ तपः कर्तुमारब्धवान् । जरत्कुमारेण कृष्णमरणमाकर्ण्य बलभद्रादयो नेमिनाथं नमस्कृत्य सर्वेऽपि यादवा द्वारवतीं विविशुः। ततः कृष्णो बलभद्रश्च पुर्या घोषणां मद्यनिषेधिनी कारयामासतुः। ततो मद्यपैर्मद्याङ्गानि पिष्टकिण्वादीनि मद्यानि च कदम्बवने गिरिगव्हरे शिलाभाण्डानि आस्फालितानि । सा मदिरा कदम्बवनकुण्डेषु गता। कर्मविपाकहेतुत्वेनावस्थिता । श्रीनेमिनाथः पल्लवदेशे गतः । जिनेन सह भव्यलोक उत्तरापथमुच्चलितः । द्वीपायनस्तु द्वादशं वर्ष भ्रान्त्याऽतीतं मन्वानो जिनादेशो व्यतिक्रान्त इति ध्यात्वा सम्यक्त्वहीनो द्वारवतीमागत्य गिरेनिकटनगरबाह्यमार्गे आतापनयोगे स्थितः । वनक्रीडापरिश्रान्तास्तृष्णया व्याकुलीभूताः कादम्बकुण्डेषु जलमिति ज्ञात्वा शंभवादयस्तां सुरां पिबन्ति स्म । कदम्बवनस्थितां कदम्बकतया स्थितां विसृष्टां कादम्बरीं पीत्वा कुमारा विकारांश्च प्रापुः । सा पुराणापि वारुणी परिपाकवशात् तरुणीवत्तरुणान् वशेऽकरोत् । ते कुमारा असंबद्धं गायन्तो नृत्यन्तश्च स्खलितपादाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org