________________
१८४
षट्प्राभूतेदंडयणयरं सयलं दण्डकस्य राज्ञो नगर सकलं । डहिउं अब्भंतरेण दोसेण दग्ध्वा अभ्यन्तरेण दोषेण क्रोधेन कृत्वा । जिणलिंगेण वि बाहू जिनलिंगेनापि जिनलिंगसहितोऽपि बाहुर्नाममुनिः । पडि
ओ सो रउरवं नरयं पतितो गतः रौरवं नाम नरकं । अस्य कथा-- दक्षिणापथे भरतदेशे कुम्भकारकटनगरे दण्डको नाम राजा । तन्महादेवी सुव्रता । बालको नाम मंत्री। तत्र अभिनन्दनादयः पंचशतमुनयः समागताः। खण्डकेन मुनिना बालको मंत्री वादे जितः । ततो रुष्टेन तेन भंडो मुनिरूपं कारयित्वा सुव्रतया समं रममाणो दर्शितः। भणितं च तेन देव ! दिगम्बरेषु भक्त्यातिमुख्योऽसि येन भार्यामपि तेभ्यो दातुमिच्छसि । ततो रुष्टेन राज्ञा मुनयो यंत्रे निष्पीलिताः। ते तमुपसर्ग प्राप्य परमसमाधिना सिद्धिं गताः । पश्चात्तन्नगरं बाहुर्नाम मुनिरागतः । स लोकैर्वारितः । अत्र नगरे राजा दुष्टो वर्तते तेन पंचशतमुनयो यंत्रे पीडिता भवन्तमपि तथा करिष्यति । तद्वचनेन बाहू रुष्टः । तेजोऽशुभसमुद्घातेन राज्ञा मंत्रिणा च सह सर्व नगरं भस्मीचकार । स्वयमपि मृतः । रौरवे नरके पतितं राजानं मंत्रिणं चानवेष्टुमिव तत्र गतः । को नाम रौरवो नरक इति चेत् ? सप्तमे नरके पंच विलानि वर्तन्ते तेषु पूर्वदिशि रौरवः । दक्षिणेऽतिरौरवः । पश्चिमेऽसि पत्रः । उत्तरे कूटशाल्मलिः । मध्ये कुंभीपाक इति ।
अवरोति दव्वसवणो दसणवरणाणचरणपब्भहो । दीवायणुत्ति णामो अणंतसंसारिओ जाओ॥५०॥
अपर इति द्रव्य श्रमणो दर्शनवरज्ञानचरणप्रभृष्टः । दीपायन इति नामा अनन्तसंसारिको जातः ॥
१ न. टी. । २ वि. मूलगाथा पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org