SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ भावप्राभृतं । १८३ २०००००| त्रीन्द्रिय २०००००। चतुरिन्द्रिय २००००० | सुरनरयतिरियचदुरो - सुराणां जातयश्चतस्रो लक्षाः ४०००००| नारकाणां जातयश्चतस्रो लक्षाः ४०००००| तिरश्चां जातयश्चतस्रो लक्षाः ४०००००| चोद्दस मणुए - चतुर्दश लक्षा जातयो मनुजे मनुष्यजीवानां १४०००००। सदसहस्सा - शतसहस्राः । भावेण होइ लिंगीण हु लिंगी होड़ दव्वमित्तेण । तम्हा कुणि भावं किं कीरइ दव्वलिंगेण ॥ ४८ ॥ भावेन भवति लिङ्गी न हु भवति द्रव्यमात्रेण । तस्मात् कुर्याः भावं किं क्रियते द्रव्यलिङ्गेन ॥ भावेण होइ लिंगी भावेन निदानादिरहिततया जिनसम्यक्त्वसहिततया लिंगी सन् लिंगी भवति निदानादिसहितो जिनसम्यक्त्वरहितो लिंगी मुनिलिंगी जिनलिंगी सत्यलिंगी न भवति । ण हू लिंगी होड़ दव्वमित्तेण न हु-स्फुटं लिंगी सन्नपि लिंगी न भवति द्रव्यमात्रेण शिरोलोच मयूरपिच्छकमण्डलुग्रहणवस्त्रत्य जनमात्रेण लिंगी सन्नपि लिंगी न भवति पुनः संसारपतनहेतुत्वात् । तम्हा कुणिज्ज भावं तस्मात्कारणात् कुर्यास्त्वं । कं, भावं - जिनसम्यक्त्व निर्मलपरिणामं । किं कीरइ दव्वलिंगेण पूर्वोक्तद्रव्यलिंगेन किं क्रियते न किमपि मोक्षसुखं क्रियत इति भावः । दंडयणयरं सयलं डहिउं अब्भंतरेण दोसेण । जिण लिंगेण वि बाहू पडिओ सो रउरखं नरयं ॥ ४९ ॥ दण्डकनगरं सकलं दग्ध्वा अभ्यन्तरेण दोषेण । जिनलिङ्गेनापि बाहुः पतितः स रौरवं नरकम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy