SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १८२ षट्प्राभूतेनिरुत्तस्थे । मुशलीवीरवरो विरुद्धनृपतीनाक्रम्य रंगे स्थितः । स्वानुजं स्वीकृत्य गर्जितं चकार । विष्णुस्त्रिखण्डलक्ष्म्या कटाक्षितः । इति श्रीभावप्राभृते द्रव्यलिंगिनो वसिष्टमुनेः कथा परिसमाप्ता। सो णत्थि तं पएसो चउरासीलक्खजोणिवासम्मि । भावविरओ वि सवणो जत्थ ण हुरुहुल्लिओ जीव ॥४७॥ स नास्ति त्वं प्रदेशः चतुरशीतिलक्षयोनिवासे । भावविरतोऽपि श्रवणो यत्र न भ्रान्तः जीव । ॥ पदखण्डनारूपेण व्याख्यानं क्रियते। हे जीव ! हे चेतनस्वरूपात्मन् ! जत्थ यत्र प्रदेशे। तं त्वं भवान् । ण दुरुढल्लिओ न भ्रान्तः स प्रदेश: संसारे नास्ति । कस्मिन् , चउरासीलक्खजोणिवासम्मि चतुरशीतिलक्षयोनिवासे स्थाने । कथंभूतस्त्वं, भावविरओ वि सवणो श्रवणो दिगम्बरोऽपि सन् भावविरतो जिनसम्यक्त्वरहितः । उक्तं च गुम्मटसारग्रन्थे नेमिचन्द्रेण गणिना णिच्चिदरधादु सत्तय तरु दस वियलिदिएसु छच्चेव। सुरनरयतिरियचदुरो चउदस मणुए सदसहस्सा ॥१॥ अस्या अयमर्थः-नित्यनिकोतजीवानां सप्तलक्षा जातयः ७०००००। इतरनिगोदजीवानां जातयः सप्तलक्षाः ७०००००। धातूनां पृथिवीकायजीवानां अप्कायजीवानां तेजःकायजीवानां वायुकायजीवानां जातयः चतुर्णी प्रत्येकं सप्तलक्षाः । पृथ्वी ७००००० । अप् ७०००००। तेजः ७०००००। वायु ७००००० । तरु दह-वनस्पतिकायजीवानां जातयो दशलक्षा १०००००० । वियलिदिएसु छच्चेव-द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजीवानां जातयः समुदायेन षड्लक्षाः । द्वीन्द्रिय १ जीवो. ग. घ.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy