________________
भावप्राभृतं ।
१८१
मनोहरास्तस्थिवांसः। कंसमल्लाश्च प्रोवृत्ताश्चाणूरप्रमुखा विक्रमैकरसा रंगाभ्यर्ण समाक्रम्य स्थितवन्तः । विष्णुश्च रंगस्य मध्ये समुदात्तमनः प्रसरो वीर उरुमल्लाप्रणीः प्रतिमलयुद्धविजयं प्रागेव प्राप्त इव दीप्ततेजा देवोऽवतीर्णोऽधुना मल्लुत्वं प्राप्तो भास्वानिव अहं जेष्यामीति प्रवृद्धपराक्रमैकरसः स्वयं संभावयन् निविडपरिगहीतपरिधानः प्रबद्धकोशः स्वभावेन मसृणाङ्गो विकूर्चश्चित्तवृत्तिवित्तोऽप्रतिमल्लनिरन्तराभ्यस्तनियुद्धत्वादविकललब्धजयलाभः सर्वैरपि संभावितोत्साहः स्थिरतरपादनिवेशो वज्रसारास्थिबन्धो भुजार्गलापरविबाधी मुष्टिसंमायिमध्यप्रदेशः कृतानेककरणसमूहो लघुसंचरणप्रवीणोऽतिकठिन विस्तीर्णवक्षःस्थलो बृहन्नीलपर्वतोतुङ्गो दर्पप्रवृद्धित्रिगुणितनिजमूर्तिवलितवलितनेत्रत्वादुर्निरीक्ष्यसांमुख्योतिशयेनाशनिपातवदुनो नन्दनन्दनः स्थितः सन् यमस्याप्युच्चैर्भयमसहनीयमुत्पादयन् वरमखिलं शौर्य मूर्तिमन्मिलितमिव समस्तं रहो मनुष्याकारमागतमिव सिंहाकारः सहसाकृतसिंहध्वनिः रंगादंगणमिव नभोङ्गणमलंघत पुनराकाशादशनिवदवनिमापत्य आत्मपादपाताभिघातचलिताचलसन्धिबन्धो मुहर्वल्गन् परिसरंश्च प्रतिजंभमाणसिंदूररंजितभुजदण्डौ समुदग्रौ क्रुद्धः प्रवलयन् श्रोणीद्वितयभागविलंबिपीतवस्त्रो नियुद्धकुशलं पर्वतशिखरोन्नतं प्रतिमलं चाणूरमाहत्य सहसा सिंहवदाबभासे । तं दृष्ट्वा रुधिरोद्गमोग्रलोचनः कंसः स्वयं मल्लतां प्राप्यागच्छति स्म । तमुग्रसेनतनयं जन्मान्तरद्वेषात् करेण चरणे संगृह्याकाशे भ्रामयन्नल्पाण्डमिव यमराजस्य समीप उपायनीकृर्तुमिव स कृष्णो भूमावास्फालयामास । तदा कृष्णमस्तके व्योम्नः कुसुमानि प्रपेतुः देवदुंदुभयो ध्वनि चक्रुः । वसुदेवसेना समुद्रे प्रक्षोभणात् कोलाहलध्व
१ केशः. ख. । २ अप्रतिमल्लैर्गोपमल्लैः. ख. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org