________________
षट्प्राभृतेउज्यालाकणान् किरन् फणारत्नप्रभाभासिफणाप्रकटाटोपभयानकः प्रचलदरसनायुगलो विस्फुरद्वीक्षणाऽत्युग्रवीक्षणः प्रत्युत्थाय कृतान्ताकारस्तं निगरितुमुद्यतः । कृष्णस्तु मम वसनमिदमस्य ताडने शुद्धशिला भवत्विति जला, पीतवस्त्रं मुक्त्वा फटायां तं निष्ठुरं ताडयामास । तस्माद्वस्त्रपाताद्वज्रपातादपि दुर्धरात् पूर्वपुण्योदयाच्च भीत: कालियाहिः फणीन्द्रोऽदृश्यतां जगाम । हरियथेष्टं कमलानि गृहीत्वा शत्रोः समीपं प्रापयामास । तानि दृष्ट्वा कंसो निजशत्रु दृष्टवानिव नन्दगोपसमीपे मम शत्रुर्वर्तते इात निश्चिकाय । एकदा नन्दगोपालमादिष्टवान् मल्लयुद्धमीक्षितुं निजमल्लैः सहाऽऽगच्छेरिति । स च तत्सन्देशं श्रुत्वा कृष्णादिभिर्मल्लैः सह प्रविवेश । तत्र मत्तगजं वीतबन्धनं कृतान्ताकारं मन्दगन्धाकृष्टरुवद्धमरसेवितं नियमच्युतराजकुमारवत् निरंकुशं दन्तमुशलाघातनिर्भिन्नसुधामन्दिरमाधावन्तं विलोक्य कश्चित् संमुखं प्रढौक्य दन्तमेकमुत्पाट्य तेनैव तं ताडयामास । गजोऽपि भीतो दूरं जगाम्। तदृष्ट्वा हरि शं तुष्टः सन्नुवाच-अनेन निमित्तेन कुटुम्बप्रकृटीकृतो जयोऽस्माकं भविष्यतीति गोपान समुत्साह्य कंससंसदं विवेश । वसुदेवोऽपि राजा कंसाभिप्राय विदित्वा निजसेनां सन्नायैकत्र स्थितः । बलभद्रोऽपि कृष्णेन सह रंगं प्रविष्ट इव दोर्दण्डास्फालनध्वनि कृत्वा समन्तात् परिभ्रमन् कंसविनाशेऽद्य सव समय इति समाख्याय निर्जगाम । तदा कंसादेशेन विष्णुविधेया गोपकुमाराः प्रदर्पवन्तः भुजानास्फाल्य गृहीतमल्लपरिच्छदाः कर्णानन्दकारिवादित्रचटुलध्वनिभिरेकत्रीभूत्वा चरणोत्क्षेपविनिक्षेपाः प्रोन्नतभुजद्वयोत्कटाः पर्यायनर्तितप्रेक्षणीयभ्रूभंगभयानकशब्दानिवर्तनशतावर्तनसंभ्रमणवलानप्लवनसमवस्थानरपरैश्च स्फुटैः करणैः रंगसमीपमलंकृत्य नयन
१ रसज्ञा. क. २ नेत्र । ३ अवलोकनीयः । ४ द्वयोत्क्षेपाः. ख. ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org