________________
भावप्राभृतं ।
१७९ असौ शिशुः पुण्याधिकः केवलो न वर्तते इति । तस्य कर्मणः शक्तश्वेदागच्छेति निजपुत्रमिव तं गृहीत्वा सुभान्वपरनामा स्वर्भानुर्मथुरां जगाम । यथा कंसं ददर्श । तत्कर्मकरणे बहून् भग्नमानान् दृष्ट्वा कृष्णः स्वर्भानुसुतं भानुं समीपगं कृत्वा कर्मत्रयं समकालं चकार । ततः सुभानुना दिष्ट्यादिष्टः कृष्णो गोष्टं जगाम । कैश्चित्पुरुषैः कंसो भणितः " तत्कर्म भानुना कृतं " । कैश्चित्तद्रक्षकैरुक्तं " न भानुना तत्कर्म कृतं अन्थेन कुमारेणेति ” । तच्छ्रुत्वा कंसः प्राह – सोऽन्योऽन्विष्यानीयतां तस्मै कन्या प्रदीयते इति । स कस्य, किं कुलं, कस्मिन्निति । तावन्नन्दगोपेन सम्यग्विज्ञातं अनेन मत्पुत्रेण तत्कर्म सम्यक्कृतमिति भीत्वा गोमण्डलं नीत्वा पलायांबभूवे । शिलास्तंभमुद्धर्तुं तत्र सर्वे जनाः प्रातास्ते नाशक्नुवन् । कृष्णेन केवलेनैव समुद्धृतः । तत्साहसात् सर्वे जना विस्मित्य जन्हषुः । परार्ध्याशुकाभरणादिदानेन पूजयामासुः । नन्दगोपस्तु ममास्य पुत्रप्रभावेन कुतोऽपि भयं नास्तीति प्राक्तनमेव स्थानं गोकुलं निनाय । अन्वेषकैस्तु नन्दगोपसुतेनैतत्कर्म कृतमिति राज्ञे निवेद्यते स्म । तथापि तदनिश्चये सहस्रदलं कमलमहीशरक्षितं प्रेष्यतामिति राज्ञा नन्दगोप आज्ञापितः शत्रोर्जिज्ञाशया । तच्छ्रुत्वा नन्दगोपः शोकादाकुलो बभूव " राजानः किल प्रजानां पालका भवन्ति कष्टमेतत् तेऽद्य मारकाः संजाता इति ।" निर्विद्य पुत्र ! त्वं याहि राजेविष्ठिदृशी वर्तते इति । त्वयैवोप्रसर्परक्षितानि कमलानि राज्ञः प्रदातव्यानीति जगाद | कृष्णः प्राह - कोऽपि पदार्थः किं दुष्करो मम वर्तते इत्यपूर्वतेजा नागसरो जगाम । त्वरितं तत्र निःशंकं प्रविवेश च । तं ज्ञात्वा कोपेन वेपमानो लेलिहानः स्वनिःश्वाससमुद्भूतज्वल
१ ख. पुस्तके नास्त्ययं पाठः । २ आज्ञा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org