________________
१७८
षट्प्राभतेरिश्रान्ता माता मूर्छितेति जल्पन् सुधीः कुंभपूर्णपयोभिस्तां समन्ततोऽभ्युक्षितवान् । ततो गोष्ठवृक्षादीनामपि तद्योग्यं पूजनं कृत्वा गोपालकुमारैः सह कृष्णं भोजयित्वा स्वयं च भुक्त्वा माता पिता च विकुर्वाणौ पुरं प्रविविशतुः । कदाचिन्महावर्षपाते जाते गोवर्धनाख्यं पर्वतमुद्धत्य हरिर्गवामावरणं चकार । तेन ज्योत्स्नेव तत्कीर्तिरखिलं जगत् व्याप्नोति स्म शत्रुमुखकमलसंकोचकारिणी । तन्नगरस्थापनाहेतुभूतजिनालयसमीपे पूर्वदिशि देवतागृहे हरिपुण्यातिरेकात् नागशय्या धनुः शंखश्च त्रीणि रत्नानि देवतारक्षितानि नारायणस्य भविष्यलक्ष्मीसूचकानि समुत्पन्नानि । तानि दृष्ट्वा कंसो वरुणं सभयः पप्रच्छ-एतेषां प्रादुर्भूते: किं फलमिति । स प्राह-हे राजन् ! एतानि त्रीणि रत्नानि शास्त्रोक्तविधिना यः साधयति स चक्रवर्ती भविष्यतीति । तच्छत्वा कंसः स्वयं तत्रितयं साधयितुमिच्छुरपि साधयितुमशक्तो मनाक् खिन्नः साधनाद्विरराम । उक्तवांश्च यो नागशय्यामारुखैकेन हस्तेन शंखं पूरयति द्वितीयेन करेण धनुरारोपयति युगपत्कार्यत्रयं करोति तस्मै निजपुत्री दास्यामीति स्वशत्रु परिज्ञातुं साशंकः पुरे घोषणामचीकरत् । तद्वार्ता श्रुत्वा सर्वे राजान आगताः । राजगृहात् कंसश्यालकः स्वर्भानुनामा भानुनामानं स्वपुत्रं भानुसदृशमादायाजगाम । निवेशं चिकीर्षुर्गोदावनसमीपे महासर्पनिवाससरोवरतटे निवासं कर्तुमना गोपालकुमारेभ्यः श्रुत्वा कृष्णं विनाऽस्य सरसो जलमानेतुं परैर्न शक्यमिति तमाहूय यथास्थानं स्कन्धावारं निवेशयामास । कृष्ण उवाच-राजन् ! त्वया कुत्र गम्यते इति । स्वर्भानुमथुरागमनप्रयोजनं तस्योक्तवान् । कृष्ण उवाच-राजन् ! एतकर्म किमस्मद्विधैरपि कर्तुं भवेत् । तच्छुत्वा स्वर्भानुश्चिन्तयामास
१ वृषा० ख. । २ हर्षमाणौ। ३ प्रविशशतुः क.। प्रविशतुः ख. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org