________________
भावप्राभृतं ।
१७७ नावसरे बलवत्पीडां चकार । तत्पीडां सोढुमसमर्था मृताहमित्याक्रोशं कृत्वा पलायिता (१)। द्वितीया देवता शकटाकारं गृहीत्वा शिशूपरि धावन्ती तेन पादाभ्यां ताडिता नष्टा (२)। अपरेधुनन्दगोपी कव्यामुदूखलं बद्धा जलमानेतुं गता तथापि शिशुरन्वगमत् । तदा तं बालं मारयितुं द्वे देवते अर्जुनतरू भूत्वा तदुपरि पतन्त्यौ मूलादुन्मूलयामास (३-४)। विष्णोश्वंक्रमणवेलायामेका तालतरुर्भूत्वा तन्मस्तके फलानि दृषदोऽपि निष्ठुराणि पातयितुमुद्यता (५)। अपरा रासभी भूत्वा तं दष्टुमागता । तां रासभी चरणे धृत्वा तयैव तं वृक्षमताडयत् (६)। अन्यस्मिन् दिनेऽन्या देवता तुरंगमो भूत्वा तं मारयितुमागता । तस्य वदनं मुष्टिना जघान (७)। एवं सप्तैव देवताः कंसमागत्योचुः वयं तव शत्रुमाहन्तुं न समर्थाः स्म इति । विद्युत इव विलीनाः । देवतानामपि शक्तयः पुण्यवजने न समर्थाः शक्रवज्रेऽरिशस्त्राणीव । अन्यस्मिन् दिनेऽरिष्टनामा देवस्तत्पराक्रमं दृष्टुं तत्पुरमागतः कृष्णवृषाकारः, तस्य ग्रीवाभंजने स उद्यमं चकार। तन्माता यशोदापि तं तर्जयति स्म-पुत्र! एवमादित एवाफलचेष्टितात् क्लेशान्तरसम्पादकाद्विरमेति पुनः पुनर्निवारितोऽपि मदोत्कटस्तच्चेष्टितं चकार । महौजसोऽपदाने निवारयितुं न शक्यन्ते । तत्पौरुषं ख्यातं लोकवचनादाकर्ण्य देवकीवसुदेवौ तद्दर्शन उत्कण्ठितौ । गोमुखीनामोपवासमिषेण सीरिणां सह महत्या विभूत्या गोदावनं गोष्ठं परिवारेण सह गतौ । तस्मिन्नेव दर्पवद्रुषभेन्द्रग्रीवाभंगावसरे कृष्णं महाबलं समालम्ब्य स्थितं दृष्ट्वा गन्धमाल्यादिसन्मानानन्तरं भूषयामासतुः । तदनन्तरं प्रदक्षिणं कुर्वत्या देवक्याः शातकुंभकुंभसदृशयोः स्तनयोः क्षीरं सुस्राव कृष्णस्याभिषेकं कुर्वत्या इव । बलस्तद्वीक्ष्य मंत्रभेदभयादुपवासप
१ महौजसौपदानि. ख.। २ शुद्धकर्मणि इत्यर्थः । ३ बलभद्रेण । ४ महाविभूत्या. ख. । ५ शुश्राव, ख. । ६ बलदेव ।
षद्र. १२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org