________________
१७६
षट्प्राभते
मित्यागतः । स प्रणम्योवाच-मम प्रिया युष्मत्प्रचारिका पुत्रार्थ गन्धादिभिः पूजयित्वा देवतां याचितवती-देवि ! पुत्रं मे देहीति । सांद्य रात्रौ पुत्री लेभे । सोवाचेति स्त्र्यपत्यं ताभ्य एव देहि । तस्याः सशोकाया वचनादिदं स्त्र्यपत्यं देवताभ्यो दातुं मम प्रयासोऽयं स्वामिन्निति जगाद । तद्वचनं तौ श्रुत्वाऽस्मत्कार्य सिद्धमिति प्रहृष्य तमूचतुः-त्वमस्माकमभीष्टस्तेन तव गुह्यं कथ्यते, अयं बालश्चक्री भविष्यति त्वं पालयेति । इयं तु बालिकाऽस्मभ्यं दीयतामिति । तां गृहीत्वा गूढतया पुरं गतौ। नन्दगोपस्तु गृहं गत्वा प्रियां प्राह-प्रिये ! देवता तुष्टा महापुण्यं पुत्रं तुभ्यं ददुः प्रसन्ना इति प्रोच्य तं पुत्रं तस्यै समर्पयामास । कंसस्तु देवकी पुत्रीं प्रसूतवतीति श्रुत्वा तत्र गत्वा तां सुतां भग्ननासां चकार । मात्रा तु सा बालिका भूमिगेहे वर्धिता प्रौढयौवना नासाविकृतिं विलोक्य आर्यिकापार्वे सुव्रतां दीक्षां जग्राह शोकेनोते । विन्ध्यपर्वते स्थानयोगं गृहीत्वा स्थिता । वनवासिषु देवतेति पूजयित्वा गतेषु रात्रौ व्याघेण भक्षिता स्वर्गलोकं जगाम । अथापरस्मिन् दिने व्याधैहस्ताङ्गुलित्रयं दृष्टं । क्षीरकुंकुमादिभिः पूजितं देशवासिभिर्विमूढात्मभिरसावार्या विन्ध्यवासिनी देवतेति प्रमाणिता। अथ तस्मिन् पुरे महोत्पाताः प्रसृताः। तान् दृष्ट्वा कंसेन वरुणः पृष्टः किमेषां फलमिति । स आह-तव शत्रुः समुत्पन्नो महान् इति । नैमित्तिकवचनं श्रुत्वा राजा चिन्तावस्थो बभूव । तदा पूर्वोक्ता देवताः समागताः किं कर्तव्यमिति पप्रन्छुः । स आह-मम शत्रु पापिष्ठ कचिदुत्पन्नमन्विध्य मारयत यूयं । तच्छ्रुत्वा सप्तापि गतास्तथास्त्विति । तत्र पूतना विभंगात् ज्ञात्वा वासुदेवं मारयितुं यशोदातन्मातृरूपं गृहीत्वा विषस्तनपानोपायेन दुष्टा मारणं चिकाढौंकिता। तद्वालपालनोद्युक्ता काचिदन्या देवता स्तनदा१ यशोदा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org